________________
त्रिषष्टिशलाकापुरुषचारते
प्रथमं पर्व पञ्चमः सर्गः | श्रीऋषभ|स्वामिचरितम् ।
।। २७९ ।।
नूनं गतं मुधा बाहुदण्डवीर्यमिदं च नः । अरण्यभववृक्षाणामिव प्रसवसौरभम् ।। ५३५ ।। क्लीबैः स्त्रीणामिवाऽस्त्राणामस्माभिः संग्रहो मुधा । व्यधायि शस्त्राभ्यासश्च, शास्त्राभ्यासः शुकैरिव ।। ५३६ ॥ इदं चाऽगृह्यताऽस्माभिः, पादातमपि निष्फलम् । कामशास्त्रपरिज्ञानमिव तापसदारकैः ।। ५३७ ।। मुधैव कारिता माराभ्यासमेते मतङ्गजाः । वाजिनश्च श्रमजयमस्माभिर्हतबुद्धिभिः ।। ५३८ ।। मुधा गर्जितमस्माभिर्वारिदैरिव शारदैः । महिषीभिरिवाऽस्माभिर्विकटं च कटाक्षितम् ।। ५३९ ।। मुधा सन्नद्धमस्माभिः, सामग्रीदर्शकैरिव । तच्चाऽहङ्कारगर्भत्वमपूर्णे युद्धदोहदे ।। ५४०।। एवं विचिन्तयन्तस्ते, विषादविषगर्भिताः । ससूत्काराः सफूत्कारा, इव सर्पा अपासृपन् ।। ५४१ ॥ तत्कालं भरतेशोऽपि, क्षत्रव्रतमहाधनः । स्वामपासारयत् सेना, वेलामिव महार्णवः ।। ५४२ ।। चक्रिणा सैनिकाः स्वेऽपसार्यमाणा महौजसा । एवमालोचयामासुर्वृन्दीभूय पदे पदे ।। ५४३ ।। स्वामिना कस्य मन्त्रेण, मन्त्रिव्याजेन वैरिणः । द्विबाहुमात्रकेणेव, द्वन्द्वयुद्धममन्यत ? ॥ ५४४ ।। स्वामिना यो हि संग्रामो, यद् भोजनमुदश्चिता । पर्याप्तमेव तदहो !, किं कृत्यं नस्ततः परम् ? ।। ५४५ ।। षट्खण्डभरतक्षेत्रभूभुजां रणकर्मसु । कोऽपि नः किमपक्रान्तो, यन्निषिध्यामहे रणात् ? ॥ ५४६ ।। युक्तं भृत्येषु नष्टेषु, विजितेषु हतेषु वा । युद्धं भर्तुर्नाऽन्यथा तु, विचित्रा हि रणे गतिः ।। ५४७ ।। स्वामिनः संशयं युद्धे, जातु शङ्कामहे न हि । विनैकं बाहुबलिनं, प्रतिपक्षो भवेद् यदि ।। ५४८ ।। उदग्रबाहुना बाहुबलिना सममाहवे । विजये संशयः पाकशासनस्याऽपि केऽपरे ? ।। ५४९ ।। १ युद्धमनोरथे । २ तक्रेण । ३ शत्रुः । ४ इन्द्रस्य ।
भरतबाहुबलियुद्धम् ।
।। २७९ ।।