________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व पञ्चमः
सर्गः
॥२७८ ।।
श्रीऋषभस्वामिचरितम् ।
स्वतोऽपि द्वन्द्वयुद्धेछुः, किं पुनः प्रार्थितः सुरैः ? ।स्वामी स्वाराजतुल्यौजाः, समराद् वो निषेधति ।। ५२२ ।। हस्तैिमल्ल इवैकाङ्गमल्लो युष्माभिरेष तत् । युध्यमानः प्रेक्षणीयस्तटस्थैरमरैरिव ।। ५२३ ।। वालयित्वा रथानश्वान्, कुअरांश्च महौजसः । अपक्रामत तद् यूयं, वक्रीभूता इव ग्रहाः ।। ५२४ ।। खङ्गान् क्षिपत कोशेषु, करण्डेष्विव पन्नगान् । कुन्तान् केतूनिवोदस्तान्, मोचेकान्तर्विमुञ्चत ।। ५२५ ॥ मुद्गरान् न्यञ्चतोदस्तान्, हस्तानिव महाद्विपाः । उत्तारयत कोदण्डान्मौर्वी भालादिव ध्रुवम् ।। ५२६ ॥ भूयोऽपि बाणधौ बाणं, निधत्ताऽर्थं निधानवत् । शल्यानि संवृणुत च, विद्युतो वारिदा इव ।। ५२७ ॥ प्रतीहारगिरा वज्रनिर्घोषेणेव धूर्णिताः । सैनिका बाहुबलिनश्चेतस्येवं व्यचिन्तयन् ।। ५२८ ॥ अहो ! रणाद् भाविनोऽपि, भीतैर्वाणिजकैरिव । भरतेश्वरसैन्येभ्यो, लब्धोत्कीचैरिवोच्चकैः ।। ५२९ ।। प्राग्जन्मवैरिभिरिवाऽकस्मादस्माकमागतैः । हा प्रभुं प्रार्थ्य विबुधै, रुद्धो युद्धोत्सवोऽधुना ॥ ५३० ॥
॥युग्मम् ॥ अग्रतो भाजनमिव, भोजनाय निषेदुषाम् । पर्यवृत्तः सूनुरिव, लालनायोपसर्पताम् ।। ५३१ ॥ आकर्षणीरज्जुरिव, कूपानिर्गच्छतामहो ! । अहारि दैवेनाऽस्माकमागतोऽपि रणोत्सवः ॥५३२ ॥
॥युग्मम् ।। अन्यो भरततुल्यः कः, प्रतिपक्षो भविष्यति । स्वामिनो येन संग्रामे, भविष्यामोऽनृणा वयम् ।। ५३३ ॥ मुधोपादायि दायादैरिव स्तेयंकरैरिव । सौवासिनेयैरिव चाऽस्माभिर्बाहुबलेर्धनम् ॥ ५३४ ॥ १ इन्द्रतुल्यपराक्रमः । २ युद्धात् । ३ हस्तिश्रेष्ठः । ४ वक्रगतियुक्ताः । ५ कोशान्तः । ६ नीचैः कुरुतः । ७ ललाटात् । ८ 'लांच इति लोके । ९ ऋणरहिताः । १० चौरेः । ११ चिरपितृगृहवासिनीस्त्रीपुत्रैः ।
भरतबाहुबलियुद्धम् ।
॥२७८॥