________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व पञ्चमः सर्गः श्रीऋषभस्वामिचरितम् ।
॥२७७॥
तदेतद् भरतक्षेत्रवैभवं भरतेशितुः । हृतमेव मया वित्थोपेक्षितं ह्यनपेक्षया ।। ५०७ ॥ मह्यमर्पयितुं कोशं, हस्त्यश्वादि यशोऽपि च । प्रतिभूमिरिवाऽऽनीतोऽमात्यैः स्वसदृशैरसौ ॥ ५०८ ॥ युद्धान्निषेधतैनं तद्, यद्यस्य हितकाङ्क्षिणः । अयुध्यमानेनाऽन्येनाऽप्यहं युध्ये न जातुचित् ।। ५०९ ।। ऊर्जितं तद् वचस्तस्य, पर्जन्यस्येव गर्जितन् । आकर्ण्य विस्मयोत्कर्णास्ते भूयोऽपेवमभ्यधुः ॥ ५१० ।। इतो जल्पन् युधे हेतुं, चक्री चक्राप्रवेशनम् । न शक्योऽनुत्तरीकृत्य, निरोद्ध गुरुणाऽपि हि ।।५११ ॥ युध्यमानेन युध्येऽहमिति जल्पन भवानपि । युद्धान्निरोद्धं नियतं, शक्रेणाऽपि न शक्यते ॥ ५१२ ।। द्वयोरप्यृषभस्वामिदृढसंसर्गशालिनोः । द्वयोरपि महाबुद्ध्योर्द्वयोरपि विवेकिनोः ।। ५१३ ।। द्वयोरपि जगत्रात्रोईयोरपि दयावतोः । भाग्यक्षयेण जगतां, युद्धोत्पात उपस्थितः ॥ ५१४ ।। ।। युग्मम्।। तथापि प्रार्थ्यसे वीर!, प्रार्थनाकल्पपादप! । उत्तमेनैव युद्धेन, युध्येथा माऽधमेन तु ।। ५१५ ॥ अधमेन हि युद्धेन, युवयोरुग्रतेजसोः । भूयिष्ठलोकप्रलयादकाले प्रलयो भवेत् ।। ५१६ ॥ दृष्टियुद्धादिभिर्युद्धैर्योद्धव्यं साधु तेषु हि । आत्मनो मानसिद्धिः स्याल्लोकानां प्रलयो न च ।। ५१७ ॥ आमेति तस्मिन् वदति, नातिदूरे दिवौकसः । तस्थुष्टुं तयोर्युद्धं, नगर्या नागरा इव ।। ५१८ ।। अथाऽऽज्ञया बाहुबलेः, प्रतीहारो गजस्थितः । गर्जन् गज इवोर्जस्वि, जगादेति स्वसैनिकान् ।। ५१९ ।। भो भोः ! समस्तराजन्याश्चिरं चिन्तयतां हि वः । उपस्थितं स्वामिकार्यमभीष्टं पुत्रलाभवत् ।। ५२० ।। परं वः स्वल्पपुण्यत्वाद्, देवैर्देवोऽयमर्थितः । भरतेन सह द्वन्द्वयुद्धहेतोर्महाभुजः ।। ५२१ ॥ १ जानीथ । २ प्रतिनिधिभिः । ३ मेघस्य ।
भरतबाहुबलि
।।२७७ ।।