________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व पञ्चमः सर्गः श्रीऋषभस्वामिचरितम् ।
।। २७६ ।।
राज्यस्तैरप्यसन्तुष्ट, आधून इव भोजनैः । आचिच्छेद स राज्यानि, स्वेषामवरजन्मनाम् ॥ ४९२ ।। पितृदत्तानि राज्यानि, भ्रातॄणामाच्छिनत्ति यः । गुरुत्वमात्मनस्तेन, स्वयमेव निवारितम् ।। ४९३ ।। वयोमात्रेण न गुरुर्गुरुर्गुरुवदाचरन् । गुरुत्वं दर्शितं तेन, भ्रातृनिर्वासनादिदम् ॥ ४९४ ।। प्रान्तेनाऽयमियत्कालं, दृष्ये गुरुधिया मया । स्वर्णबुद्ध्या पित्तलवन्मणिबुद्ध्या व काचवत् ।। ४९५ ॥ पित्रा वंश्येन वाऽन्यस्याऽप्युर्वी दत्तां निरागसः । न हरेदल्पराज्योऽपि, किं पुनर्भरतेश्वरः ? ॥ ४९६ ॥ हृत्वाऽनुजाना राज्यानि, नूनमेष न लज्जितः । जितकासी राज्यकृते, मामप्याह्वयते यतः ।। ४९७॥ जित्वाऽसौ भरतं सर्व, रयादास्फलितो मयि । तीर्वाऽम्भोधि पोत इव, दन्ते तटमहीभृतः ।। ४९८ ॥ ज्ञात्वा लुब्धममर्याद, क्रयादमिव निघृणमे । अमुं ममाऽनुजन्मानोऽप्यभजन लज्जया नहि ।। ४९९ ।। तस्य केन गुणेनाऽहं, भवाम्यद्य वशंवदः ? । ब्रूत माध्यस्थ्यमास्थाय, सभासद इवाऽमराः ! ।। ५०० अथ स्वविक्रमेणाऽयं, मां करोति वशंवदम् । तत् करोत्वेष पन्था हि, क्षत्रियाणां वशंवदः ।। ५०१ ।। एवं स्थितेऽपि ह्यालोच्य, वलित्वा हन्त ! याति चेत् । एष क्षेमेण तद् यातु, लुब्धोऽहं न ह्यसाविव ।।५०२ ॥ तद्दत्तं भरतं सर्वं, मुझेऽहमिति किं भवेत् ? | केसरी केनचिद् दत्तं. किमश्नाति कदाचन ? ।। ५०३ ॥ भरतं गुहृतस्तस्य, वर्षषष्टिसहस्यगात् । इदं यद्यजिघृक्षिष्यमग्रहीष्यं तदाऽपि हि ।। ५०४ ।। कालेनैतावता तस्य, जातं भरतवैभवम् । तद्धनस्य धनमिव, कथं भ्राता हराम्यहम् ? ।। ५०५ ।। करीब जातीकवलेनाऽमुना वैभवेन चेत् । अन्धम्भविष्णुर्भरतः, सुखं न स्थातुमीश्वरः ।। ५०६ ॥ १ उदरपूरकः । २ लघुभ्रातॄणाम् । ३ बन्धुनिष्कासनात् । ४ राक्षसम् । ५ निर्दयम् । ६ कृपणस्य ।
भरतबाहुबलियुद्धम् ।
।। २७६ ।।