________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व | पञ्चमः सर्गः श्रीऋषभस्वामिचरितम् ।
॥२७५ ।।
चिरं जय चिरं नन्द, वृषभस्वामिनन्दन! । जगन्नेत्रचकोराणामानन्दैकनिशाकर ! ॥ ४७७ ।।
अम्भोधिरिव मर्यादा, नोल्लवयसि जातुचित् । बिभेष्यवर्णवादाच्च, समरादिव कातरः ।। ४७८ ।। निजसम्पत्स्वनुत्सेकी, परसम्पत्स्वमत्सरी । विनेता दुर्विनीतानां, विनीतश्च गुरुष्वपि ।। ४७९ ।। विश्वाभयकृतो देवस्याऽनुरूपस्त्वमात्मजः । उच्छेदायाऽपरस्याऽपि, नाभ्येयुक्था मनागपि ।। ४८० ॥ तत् किं ते भ्रातरि गुरावारम्भोऽयं भयङ्करः ? । त्वत्तः सम्भाव्यते नैष, पञ्चत्वममृतादिव ।। ४८१ ॥ इयत्यपि गते कार्य, न विनष्टं मनागपि । तद्रणारम्भसंरम्भ, खलमैत्रीमिव त्यज ।। ४८२ ।। सम्परार्यरयाद् वीरान्, निवारय नरेश्वर ! । निजाज्ञया प्रसरतो, मन्त्रेणेव महोरगान् ।। ४८३ ॥ भरते भ्रातरि गुरौ, गत्वा भव वशंवदः । एवं च श्लाघ्यसेऽत्यन्तं, शक्तो विनयभागिति ॥ ४८४ ।। तदिदं भरतक्षेत्रं, षट्खण्डं भरतार्जितम् । भुङ्क्ष स्वोपार्जितमिव, युवयोर्हि किमन्तरम् ? ॥ ४८५ ॥ इत्युदित्वा विरतेषु, तेषु वृष्ट्वा घनेष्विव । एवं बाहुबलिः स्माऽऽह, स्मित्वा गम्भीरया गिरा ।। ४८६ ।। आवयोर्विग्रहे हेतुमज्ञात्वा परमार्थतः । निजस्वच्छतया यूयमेवं वदथ हे सुराः ! ॥ ४८७ ॥ तातभक्ताः सदा यूयमावां तातस्य चाऽऽत्मजौ । इति सम्बन्धतोऽप्युक्तं, युक्तं युष्माभिरीदृशम् ॥४८८ ॥ पुरा हि दीक्षासमये, तातोऽर्थिभ्यो हिरण्यवत् । विभज्य देशानस्मभ्यमदत्त भरताय च ।। ४८९ ॥ वयं सर्वेऽपि तिष्ठामः, सन्तुष्टः स्वस्वनीवृता । धनमात्रकृते हन्त !, परद्रोहं करोति कः ? ।। ४९० ॥ असन्तुष्टस्तु भरतो, जग्रसे भरतोदधौ । मत्स्यानिव महामत्स्यो, राज्यान्यखिलभूभुजाम् ।। ४९१ ॥ १ गर्वरहितः । २ नाभियोगमकुरुथाः ।३ मरणम् । ४ युद्धवेगात् । ५ निजहृदयनैर्मल्येन । ६ स्वस्वदेशेन ।७ भरतक्षेत्रसमुद्रे ।
| भरतबाहुबलियुद्धम् ।
।। २७५ ।।