________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
| पञ्चमः
सर्गः श्रीऋषभस्वामिचरितम् ।
॥ २७४ ।।
भरत
प्रतिमल्लो द्विषन्नेव, जयाजयनिबन्धनम् । बाहुबलिस्त्वहमेव, जातभेदो विधेर्वशात् ॥४६२ ॥ निर्वादभीरुर्लज्जावान्, विवेकी विनयी सुधीः । पुरा तातमिवाऽमंस्त, मां हि बाहुबलिः खलु ।। ४६३ ॥ षष्टिं वर्षसहस्राणि, कृत्वा दिग्जयमागतः । तं वीक्षेऽन्यादृशमिव, भूयान् कालोऽत्र कारणम् ।। ४६४ ।। ततोऽभिषेकवर्षेषु, द्वादशस्वपि मां न हि । आगाद् बाहुबलिस्तत्र, प्रमादस्तर्कितो मया ॥ ४६५ ।। आह्वानाय मया दूते, प्रहितेऽप्येष नैति यत् । तय॑ते मन्त्रिणां मन्त्रदोषस्तत्राऽपि कारणम् ।। ४६६ ॥ अहमप्याह्वयाम्येनं, न लोभान्न च कोपतः । किन्त्वन्तर्न विशेच्चक्रमेकस्मिन्नप्यनानते ॥४६७ ॥ न चक्ररत्नं नगरी, प्रविशत्येष मां न च । परस्परस्पर्द्धयेवेत्यनयोः सङ्कटेऽपतम् ॥ ४६८ ॥ स एकवारमायातु, मम भ्राता मनस्व्यपि । अन्योर्वीमपि गुह्णातु, मत्तः पूजामिवाऽतिथिः ।। ४६९ ॥ विना चक्रप्रवेशं मे, नाऽन्यत् संग्रामकारणम् । नतेनाऽप्यनतेनाऽपि, न मे मानोऽनुजन्मना ।। ४७० ॥ अथोचिरे सुरा राजन् !, महत् संग्रामकारणम् । अल्पेन कारणेनेदृक्, प्रवृत्तिर्न भवाशाम् ।। ४७१ ।। उपेत्य बाहुबलिनं, बोधयामोऽधुना वयम् ।युगक्षय इवाऽऽगच्छन्, रक्षणीयो जनक्षयः ।। ४७२ ।। भवानिव युधः सोऽपि, यद्युच्चैः कारणान्तरम् । वदेत् तथाऽपि युद्धेन, योद्धव्यमधमेन न ।। ४७३ ।। दृष्टि-वाग्बाहु-दण्डाधैर्युद्धैर्योद्धव्यमुत्तमैः । वधो निरपराधानां, गजादीनां यथा न हि ।। ४७४ ।। तथेति प्रतिपेदाने, चक्रवर्तिनि नाकिनः । द्वितीयस्मिन् बेले बाहुबलिराजानमभ्ययुः ॥ ४७५ ॥ अहो ! अधृष्यो मूर्त्याऽसौ, दृढावष्टम्भगर्भया । इत्यन्तर्विस्मयजुषस्ते तमेवं बभाषिरे ॥ ४७६ ॥ १ अननीमूते । २ सैन्ये ।३ धर्षितुमशक्यः ।
बाहुबलि
युद्धम् ।
युधः सकियोद्धव्यमुत दितीयस्मिन
।।२७४ ।।