________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ २७३ ॥
विश्वं संहर्त्तुमारब्धं, क्रीडामात्रकृते कुतः ? । क्षणिकप्रीतये मांसादिना खगकुलं यथा ।। ४४८ ।। जगत्रातुः कृपाम्भोधे ऋषभादाप्तजन्मनः । अग्निवृष्टिः सुंधासुतेरिवेदं किं तवोचितम् ? ।। ४४९ ।। तद् धोरात् सङ्गरादस्मात् सङ्गेभ्य इव संयमी । विरम क्षोणिरमण !, निजं व्रज निकेतनम् ॥ ४५० ।। त्वध्यायाते समायाते, याते यास्यत्यसावपि । तवाऽनुजो बाहुबलिः कार्यं हि खलु कारणात् ॥ ४५१ ।। शुभं भवतु वां विश्वक्षयांहः परिहारतः । उभयेभ्योऽपि सैन्येभ्यश्चाऽस्तु क्षेमं रणोज्झनात् ।। ४५२ ।। त्वत्सैन्यभारसम्भूतभूमिभङ्गविरामतः । भूगर्भवासिनः सन्तु भवनेन्द्रादयः सुखम् ।। ४५३ ।। भूमिः शैलाः समुद्राश्च, प्रजाः सत्त्वानि सर्वतः । क्षोभं त्यजन्तु त्वत्सैन्यविमर्दविरहादिह ।। ४५४ ।। युष्मत्समरसम्भाविविश्वसंहारशङ्कया । विना भूताः सुखं तिष्ठन्त्वपि सर्वे दिवौकसः ।। ४५५ ।। इत्युदित्वा कार्यवाद, विरतेषु सुपर्वसु । बभाषे भरताधीशो, गिरा स्तनितधीरया ।। ४५६ ।। इमां विश्वहितां वाचं, के ब्रूयुर्भवतो विना ? । जनो छँदास्ते प्रायेण परकौतुकमीक्षितुम् ।। ४५७ ।। किन्त्वत्र समरोत्थानकारणं वस्तुतोऽन्यथा । युक्त्याऽन्यथा तु युष्माभिरूहितं हितकाङ्क्षिभिः ॥ ४५८ ॥ कार्यमूलविज्ञाय, स्वयमर्म्यूह्य किञ्चन । शासितुः शासनं मोघं भवेत् सुरगुरोरपि ।। ४५९ ।। दोमानस्मीति सहसा, संग्रामेच्छुर्न खल्वहम् । सति भूयसि किं तैले, शैलाभ्यङ्गो विधीयते ? ।। ४६० ॥ षट्खण्डभरतक्षेत्रे, नृपतीन् जयतो मम । प्रतिमल्लो यथा नाऽऽसीत्, तथाऽद्याऽपि न विद्यते ।। ४६१ ।। १ मांसभक्षिणा । २ चन्द्रात् । ३ विश्वक्षयपापपरिहारतः । ४ रणत्यागात् । ५ देवेषु । ६ मेघगर्जनगभीरया । ७ उदासीनो भवति । ८ वितर्क्स । ९ बलवान् अस्मि । १० पर्वतमर्दनम् ।
44
प्रथमं पर्व
पञ्चमः
सर्गः श्रीऋषभ
स्वामि
चरितम् ।
भरत
बाहुबलि
युद्धम् ।
।। २७३ ।।