________________
-ASARASHAR
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व पञ्चमः सर्गः श्रीऋषभस्वामिचरितम् ।
।। २७२ ।।
प्रासं प्रासस्याऽसिमसेर्मुद्गरं मुद्गरस्य च । दण्डं दण्डस्य चाऽमर्षान्मेलयन्तो डुढौकिरे ॥ ४३४ ।। तावन्नभसि सम्भ्रान्तास्त्रैलोक्योन्माथशङ्कया । उपर्युपरि गीर्वाणं, गीर्वाणाः समुपागमन् ।। ४३५ ।।
॥चतुर्भिः कलापकम् ॥ सङ्घर्षः कोऽयमार्षभ्योः, स्वकयोरिव हस्तयोः ? ।इत्यामृशन्तस्ते प्रोचुरुभयोः सैनिकानिति ॥ ४३६ ।। ऋषभस्वामिनोऽत्राऽऽज्ञा, योद्धव्यं केनचिन्न हि ।युष्माकं स्वामिनी यावद्, बोधयामो मनस्विनौ ॥ ४३७ ।। आज्ञया त्रिजगद्भर्तुरुभयेऽपि हि सैनिकाः । तथैव तस्थुस्ते सर्वेऽप्यालेख्यलिखिता इव ॥ ४३८ ।। किममी बाहुबलिनः ?, किंवा भरततः सुराः ? । एवं तु चिन्तयामासुः, सैनिकास्ते तथास्थिताः ॥४३९ ॥ न व्यनश्यदहो! कार्य, भद्रं लोकाय सम्प्रति । इति ब्रुवाणा गीर्वाणाश्चक्रिणं ययुरादितः ।। ४४० ।। दत्त्वा जयजयेत्याशीर्वाद देवाः प्रियंवदाः । युक्तियुक्तेन वचसा, तं मन्त्रिण इवाऽवदन् । ४४१ ।। साधु षट्खण्डभरतक्षेत्रे भूपास्त्वया जिताः । नृदेव ! देवराजेन, पूर्वदेवा इवाऽभितः ।। ४४२ ।। तवौजसा तेजसा च, तेषु राजेन्द्र ! राजसु । मृगेषु शरभस्येव, प्रतिमल्लो न कोऽप्यभूत् ॥४४३ ॥ अपूर्यत रणश्रद्धा, तैनूनं भवतो नहि । हैयङ्गवीनश्रद्धेव, वारिकुम्मैर्विलोडितैः ॥ ४४४ ।। द्वितीयेनाऽऽत्मनो भ्रात्रा, सहाऽऽरेभे त्वया ततः । युद्धमेतत् स्वहस्तेन, स्वहस्तस्येव ताडनम् ।। ४४५ ॥ दोःकण्डूरेव ते राजस्तद्रणे कारणं ध्रुवम् । गण्डकण्डूरिवेभस्य, महातरुनिघर्षणे ।। ४४६ ।। भुजक्रीडाऽपि युवयोर्जगतां प्रलयाय हि । वनभङ्गाय सम्फेटो, मत्तयोर्हि वनेभयोः ।। ४४७ ।। १ चित्रलिखिता इव । २ न विनष्टम् । ३ असुराः । ४ प्रतिस्पर्धी । ५ नवनीतश्रद्धा । ६ युद्धम् ।
| भरतबाहुबलियुद्धम् ।
A SHRSHASHASASHARE
।।२७२ ।।