SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व पञ्चमः सर्गः ।।२७१ ॥ श्रीऋषभस्वामिचरितम् । बहिर्विस्फुट्य गच्छन्तो, न्यवार्यन्त पदातयः । राजदौवारिकैर्वारिप्रवाहा इव सेतुभिः ॥ ४२० ॥ मिथः समपदन्यासं, चेलू राजाज्ञया भटाः । ते तालेनैकसङ्गीतवर्त्तिनो नर्त्तका इव ।। ४२१ ।। अलच्चित्तनिजस्थानं, चलद्भिः सर्वसैनिकैः । पताकिन्यौ तयोरेकतनू इव विरेजतुः !! ४२२ ॥ दारपन्तः शताङ्गाना, रथाङ्गैरायसाननैः । अयःकुद्दालकल्पैश्च, खनन्तो वाजिनां खुरैः ।। ४२३ ।। भिन्दाना वेसरखुरैरर्द्धचन्द्रैरिवाऽऽयसैः । शुन्दन्तश्च पदातीनां, चरणैर्वज्रपाणिभिः ।। ४२४ ।। खण्डयन्तः, क्षुरप्राभैर्महिषोक्षखुरैः खरैः । मुद्राभैः करिपादैश्चूर्णयन्तश्च मेदिनीम् ।। ४२५ ॥ छादयन्तो रजोभिमन्धकारसहोदरैः । द्योतयन्तश्च शस्त्रोसैर्भानुमद्भानुबन्धुभिः ।। ४२६ ॥ भूयसा निजभारेण, क्लिनन्तः कूर्मकर्परम् । दंष्ट्रां महावराहस्य, नामयन्तः समुन्नताम् ।। ४२७ ।। गाढं शिथिलयन्तश्च, फणाटोपं फणीशितुः । दिग्गजानपि खर्वाङ्गीकुर्वन्तो निखिलानपि ।। ४२८ ॥ ब्रह्माण्डभाण्डं क्ष्वेडाभिर्वादयन्त इवोच्चकैः । करास्फोटप्रणादैश्च, स्फोटयन्त इवोत्कटैः ॥ ४२९ ॥ उपलक्ष्योपलक्ष्योच्चैर्विश्रुतैः केतुलाञ्छनैः । नामग्राहं च वृण्वन्तः, प्रतिवीरान् महौजसः ।। ४३० ॥ अन्योन्यमाह्वयमाना, मानशौण्डीर्यशालिनः । अग्रसैन्यैरग्रसैन्या, अमिलन सैन्ययोर्द्वयोः ॥ ४३१ ।। ॥नवभिः कुलकम् ।। गजिनो गजिनां यावद्, यादासि यादसामिव । सादिनां सादिनो यावद्, वीचिनामिव वीचयः ।। ४३२ ॥ रथिनां रथिनो यावद, वायनामिव वायवः । पत्तीनां पत्तयो यावच्छृङ्गिणामिव शृङ्गिणः ॥ ४३३ ।। १ राजद्वारपालैः ।२ रथानाम् । ३ चक्रः । ४ महिषवृषखुरैः । ५ सूर्यकिरणसदृशैः । ६ कूर्मपृष्ठम् । ७ कुब्जीकुर्वन्तः । ८ सिंहनादैः । भरतबाहुबलियुद्धम् । ॥२७१ ॥
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy