Book Title: Trishashti Shakala Purush Charitam Part 1
Author(s): Hemchandracharya,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
त्रिषष्टिशलाका
पुरुषचरिते
को हि व्रतगरिष्ठानां, कनिष्ठानां नमस्क्रियाम् । कर्तेति मान एवेभस्तमारुढोऽस्मि निर्भरम् ।। ७९२ ॥ जगत्त्रयगुरोस्तस्य, चिरं सेवाजुषोऽपि मे । नाऽभूद् विवेकस्तरणं, कुलीरस्येव वारिणि ॥७९३ ।। प्रतिपन्नव्रतेष्वादौ, स्वभ्रातृषु महात्मसु । कनिष्ठा इति यत् तेषु, नाऽभून्मम विवन्दिषा ॥७९४ ।। इदानीमपि गत्वा तान्, वन्दिष्येऽहं महामुनीन् । चिन्तयित्वेति स महासत्त्वः पादमुदक्षिपत् ।। ७९५ ।। लतावल्लीवत् त्रुटितेष्वभितो घातिकर्मसु । तस्मिन्नेव पदे ज्ञानमुत्पेदे तस्य केवलम् ।।७९६ ।। उत्पन्नकेवलज्ञानदर्शनः सौम्यदर्शनः । रवेरिव शशी सोऽथ, जगाम स्वामिनोऽन्तिकम् ॥ ७९७ ॥
प्रदक्षिणां तीर्थकृतो विधाय, तीर्थाय नत्वा च जगन्नमस्यः । महामुनिः केवलिपर्षदन्तस्तीर्णप्रतिज्ञो निषसाद सोऽथ ।। ७९८ ।।
प्रथम पर्व | पञ्चमः सर्गः श्रीऋषभस्वामिचरितम् ।
॥२९७ ॥
|| बाहुबलेः
केवलज्ञानोत्पत्तिः।
-
-
-
-
-
-
-
-
-
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्ठिशलाकापुरुषचरिते महाकाव्ये प्रथमे पर्वणि बाहुबलिसङ्ग्राम-दीक्षा-केवलज्ञानसङ्कीर्त्तनो नाम |
पञ्चमः सर्गः ।
॥२९७ ।।
-
-
१ कर्कटस्य जलजन्तुविशेषस्य । २ वन्दितुमिच्छा । ३ जगतां नमस्करणीयः ।

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399