Book Title: Trishashti Shakala Purush Charitam Part 1
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 332
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व पञ्चमः |सर्गः श्रीऋषभस्वामिचरितम् । ॥२८३ ॥ रश्मि नाऽजीगणन् रथ्या, गुर्वाज्ञामिव दुर्धियः । संणीन् नाऽमानयन् नागाः, पिशुना इव सद्गिरम् ।।५९४ ।। अश्वा नाऽज्ञासिषुर्वल्गा, कटुत्वं श्लेष्मला इव । मेया नाऽगणयन् नासारखं लज्जां विटी इव ।। ५९५ ।। न वेसराः कशाधातं, भूताविष्टा इवाऽविदन् । त्रस्यन्तस्तेन नादेन, न केऽपि स्थैर्यमादधुः ।। ५९६ ।। अथाऽऽपतत्पक्षिराजपक्षनिर्घोषबुद्धितः । पातालतोऽपि पातालं, विविक्षुभिरिवोरगैः ॥ ५९७ ।। अन्तःप्रविष्टमन्थाद्रिमन्थनध्वानशङ्कया । मध्येजलधि यादोभिस्त्रस्यद्भिः सर्वतोऽपि च ।। ५९८ ॥ भूयो जम्मारिनिर्मुक्तदम्भोलिध्वनितभ्रमात् । क्षयं स्वस्याऽऽशङ्कमानैः, कम्पमानैः कुलाचलैः ।। ५९९ ।।। कल्पान्तपुष्करावर्तमुक्तविद्युद्ध्वनिभ्रमात् । लुठद्भिरवनीपीठे, मध्यलोकनिवासिभिः ।। ६०० ।। अकाण्डागतदैत्यावस्कन्दकोलाहलभ्रमात् । आकुलैश्चाऽमरकुलैः, श्रुयमाणोऽतिदुःश्रवः ।। ६०१ ।। लोकनालिस्पर्द्धयेव, वर्धमानोऽधरोत्तरम् । विदधे बाहुबलिना, सिंहनादोऽतिभैरवः ।। ६०२ ॥ ॥षड्भिः कुलकम् ।। भूयो व्यघत्त भरतः, सिंहनादं महाबलः । वैमानिकानां वनितासासयन्तं मृगीरिव ।। ६०३ ॥ एवं क्रमेण चक्राते, चक्रिभूपौ महाध्वनिम् । जगतो मध्यमस्याऽस्य, क्रीडया भीषकाविव ।। ६०४ ॥ हस्तो मतङ्गजस्येव, शरीरं दृक्श्रुतेरिव । अहीयततमा शब्दः, क्रमेण भरतेशितुः ।।६०५ ॥ सिंहनादो बाहुबलेर्ववृधे त्वधिकाधिकम् । प्रवाहः सरित इव, सज्जनस्येव सौहृदम् ।। ६०६ ॥ १ प्रगहान् । २ रथयोजिताश्वाः । ३ अड्डशान् । ४ श्लेष्मरोगिणः । ५ उष्ट्राः । ६ जाराः ।७ गरुडः ८ इन्द्रः । ९ सर्पस्य । १० अतिशयेन हीनोऽभवत् । |भरतबाहुबलि युद्धम् । ।। २८३ ।।

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399