Book Title: Trishashti Shakala Purush Charitam Part 1
Author(s): Hemchandracharya,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
पञ्चमः सर्गः श्रीऋषभस्वामिचरितम् ।
।।२६६ ॥
कालायसमयान् कोशानाशु हस्तिपकाः शितान् । यमस्येवाऽऽहतान् दन्तान्, दन्तिदन्तेषु विन्यधुः ।।३५१ ॥ वेसराः शकटाश्चाऽस्त्रपूर्णास्तूर्ण प्रयान्त्वनु । अन्यथा लघुहेस्तानामस्त्रं पूरिष्यते कथम् ? ॥ ३५२ ॥ वर्मपूर्णाश्च यान्तूष्ट्रा, वर्माण्यग्रे धृतानि यत् । त्रुटिष्यन्ति हि वीराणामत्रुटद्रणकर्मणाम् ।। ३५३ ॥ रथान्तराणि गच्छन्तु, सज्जानि रथिनाननु । भज्यन्ते हि रथाः शस्त्राशनिपातानगा इव ।। ३५४ ।। श्रान्तेषु प्रथमाश्वेषु, युद्विघ्नो मा स्म भूदिति । सादिनां पृष्ठतो यान्तु, शतशोऽश्वान्तराण्यपि ।। ३५५ ।। एकैकं बद्धमुकुट, भूयांसोऽप्यनुयान्त्विभाः । न निर्वहति यत् तेषामिभेनैकेन सङ्गरः ।।३५६ ॥ गच्छन्तु महिषाश्चाऽनुसैनिकं वारिवाहिनः । रणायासनिदाघर्तृतप्तानां जङ्गमपाः ॥३५७ ॥ कोश इवौषधीशस्य, सारं हिमगिरेरिव । उत्पाट्यन्तां च गोणीभी, रोहणौषधयो नवाः ।। ३५८ ॥ रणे राजनियुक्तानामित्याज्ञापनजन्मभिः । कोलाहलैरतायिष्ट, रणतूर्यमहारवः ।। ३५९ ।।
॥अभिः कुलकम् ।। विश्वं शब्दमयमिव, तुमुलैर्विष्वगुत्थितैः । अयोमयमिव चाऽऽसीत्, सर्वतः प्रेवदायुधैः ।।३६०॥ स्मारयन्तश्चरित्राणि, पूर्वेषां दृष्टपूर्विवत् । शंसन्तो रणनिर्वाहफलं व्यासवदुच्चकैः ॥३६१ ॥ उद्दीपनाय वीराणां, कीर्तयन्तो मुहुर्मुहुः । उपस्थितान् प्रतिभटान्, सादरा नारदर्षिवत् ।। ३६२ ।। प्रतिनागं प्रतिरथं, प्रत्यश्वं पर्ववन्मुदा । वैतालिका रणोत्तालास्तत्र प्रेमुरनाकुलम् ।। ३६३ ॥
॥त्रिभिर्विशेषकम् ।।
मरत
बाहुबलि
युद्धम् ।
।।२६६ ॥
१ कृष्णलोहमयान् । २ हस्तलाघववताम् । ३ अविच्छिन्नरणकर्मणाम् । ४ रणप्रयासग्रीष्मणुतप्तानाम् । ५ जनमजलसत्राणि । ६ चन्द्रस्य । ७ व्रणसराहणा । ८ लोहमयमिव ।

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399