Book Title: Trishashti Shakala Purush Charitam Part 1
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 329
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व पञ्चमः सर्गः |श्रीऋषन-- स्वामिचरितम् । ॥२८०॥ महाकल्लोलिनीपूरस्येव दुस्सहरंहसः । तस्य प्रथमतोऽप्याजौ, स्थातुं भर्तुर्न युज्यते ।। ५५०॥ अस्माभिर्योधिते पूर्व, भस्तित्रोचिते रणः । पूर्वमश्वदमैर्दान्ते, वाजिनीवाऽधिरोहणम् ॥ ५५१ ।। अन्योऽन्यं सैनिकानेवं, गृणतः प्रेक्ष्य चक्रभृत् । भावज्ञ इङ्गित्ताकारैः, समाहूयेत्यभाषत ।। ५५२ ।। तमोनिर्दलने भानोर्यद्वदग्रेसराः कराः । द्विषदायोधने तद्वद्, यूयमग्रेसरा मम ।। ५५३ ।। युष्मासु सत्सु योधिषु, न मां कोऽप्याययौ रिपुः । परिखायामगाधायामिव वप्रतट द्विपः ।। ५५४ ।। अदृष्टपूर्विणो युद्धं, ततो मे यूयमीदृशम् । आशङ्कध्वे मुधा भक्तिपदेऽपीक्षते भयम् ।। ५५५ ।। सर्वे कुरुध्वं सम्भूय, दोर्बलालोकनं मम । शङ्का नश्यति वो येनाऽगदेनेव गदः क्षणात् ।। ५५६ ।। इत्युदित्वा क्षणेनाऽपि, चक्री खनकपूरुषैः । अतिविस्तीर्णगम्भीरं, गर्तमेकमखानयत् ।। ५५७ ।। तीरे दक्षिणपाथोधेरिव सहमहीधरः । अवटस्य तटे तस्योपाविशद् भरतेश्वरः ।। ५५८ ।। वामे स दोष्णिं निबिडाः, शृखलाः प्रतिशृङ्खलाः । अबन्धयल्लम्बमाना, वटवृक्षे जटा इव ।। ५५९ ।। ताभिः सहस्रसद्व्याभिः, सहस्रांशुरिवांऽशुभिः । महाद्रुरिव वल्लीभिश्चकासामास चक्रभृत् ।। ५६०॥ सोऽथ राज्ञ उवाचैवं, यूयं सबलवाहनाः । महाशकटवद् गावो, मामाकर्षत निर्भयम् ॥ ५६१ ।। सर्वे सर्वोजसा कृष्ट्वा, मां गर्ने पातयन्त्विह । मद्दोर्बलपरीक्षार्थ, स्वाम्यवज्ञाछलं न वः ।। ५६२ ॥ दुःस्वप्नोऽप्ययमस्माभिर्दृष्टस्तत् प्रतिहन्यताम् । स हि मोघीभवेदेव, चरितार्थीकृतः स्वयम् ।। ५६३ ॥ भूयो भूयश्चक्रिणवमादिष्टास्ते ससैनिकाः । कथञ्चित् प्रत्यपद्मन्त, स्वाम्याज्ञा हि बलीयसी ।। ५६४ ।। १ दुस्सहवेगस्य । २ युद्धे । ३ एतदाख्यः पर्वतः । ४ गर्तस्य । ५ भुजे । ६ वृषभाः । भरतबाहुबलियुद्धम् । ॥२८०॥

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399