Book Title: Trishashti Shakala Purush Charitam Part 1
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 327
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व पञ्चमः सर्गः ॥२७८ ।। श्रीऋषभस्वामिचरितम् । स्वतोऽपि द्वन्द्वयुद्धेछुः, किं पुनः प्रार्थितः सुरैः ? ।स्वामी स्वाराजतुल्यौजाः, समराद् वो निषेधति ।। ५२२ ।। हस्तैिमल्ल इवैकाङ्गमल्लो युष्माभिरेष तत् । युध्यमानः प्रेक्षणीयस्तटस्थैरमरैरिव ।। ५२३ ।। वालयित्वा रथानश्वान्, कुअरांश्च महौजसः । अपक्रामत तद् यूयं, वक्रीभूता इव ग्रहाः ।। ५२४ ।। खङ्गान् क्षिपत कोशेषु, करण्डेष्विव पन्नगान् । कुन्तान् केतूनिवोदस्तान्, मोचेकान्तर्विमुञ्चत ।। ५२५ ॥ मुद्गरान् न्यञ्चतोदस्तान्, हस्तानिव महाद्विपाः । उत्तारयत कोदण्डान्मौर्वी भालादिव ध्रुवम् ।। ५२६ ॥ भूयोऽपि बाणधौ बाणं, निधत्ताऽर्थं निधानवत् । शल्यानि संवृणुत च, विद्युतो वारिदा इव ।। ५२७ ॥ प्रतीहारगिरा वज्रनिर्घोषेणेव धूर्णिताः । सैनिका बाहुबलिनश्चेतस्येवं व्यचिन्तयन् ।। ५२८ ॥ अहो ! रणाद् भाविनोऽपि, भीतैर्वाणिजकैरिव । भरतेश्वरसैन्येभ्यो, लब्धोत्कीचैरिवोच्चकैः ।। ५२९ ।। प्राग्जन्मवैरिभिरिवाऽकस्मादस्माकमागतैः । हा प्रभुं प्रार्थ्य विबुधै, रुद्धो युद्धोत्सवोऽधुना ॥ ५३० ॥ ॥युग्मम् ॥ अग्रतो भाजनमिव, भोजनाय निषेदुषाम् । पर्यवृत्तः सूनुरिव, लालनायोपसर्पताम् ।। ५३१ ॥ आकर्षणीरज्जुरिव, कूपानिर्गच्छतामहो ! । अहारि दैवेनाऽस्माकमागतोऽपि रणोत्सवः ॥५३२ ॥ ॥युग्मम् ।। अन्यो भरततुल्यः कः, प्रतिपक्षो भविष्यति । स्वामिनो येन संग्रामे, भविष्यामोऽनृणा वयम् ।। ५३३ ॥ मुधोपादायि दायादैरिव स्तेयंकरैरिव । सौवासिनेयैरिव चाऽस्माभिर्बाहुबलेर्धनम् ॥ ५३४ ॥ १ इन्द्रतुल्यपराक्रमः । २ युद्धात् । ३ हस्तिश्रेष्ठः । ४ वक्रगतियुक्ताः । ५ कोशान्तः । ६ नीचैः कुरुतः । ७ ललाटात् । ८ 'लांच इति लोके । ९ ऋणरहिताः । १० चौरेः । ११ चिरपितृगृहवासिनीस्त्रीपुत्रैः । भरतबाहुबलियुद्धम् । ॥२७८॥

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399