________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व पञ्चमः सर्गः श्रीऋषभस्वामिचरितम् ।
॥२६८॥
स्वामिन्नृषभनाथेति, जप्यमाना तवाऽभिधा । आलम्बते सर्वसिद्धिसमाकर्षणमन्त्रताम् ।।३७८ ।। न वज्रमपि भेदाय, न शूलमपि हि च्छिदे । तेषां शरीरिणां नाथ !, येऽधित्वद्भक्तिवर्मिताः ।। ३७९ ।। भगवन्तमिति स्तुत्वा, नत्वा च पुलकाञ्चितः । निरगाद् देवतागारान्नरेश्वरशिरोमणिः ।। ३८० ॥ जग्राह वज्रसन्नाह, हेममाणिक्यमण्डितम् । विजयश्रीविवाहाय, स कञ्चुकमिवोच्चकैः ।। ३८१ ।। शुशुभे वर्मणा तेन, भासुरेण नरेश्वरः । घनविद्रुमसंहत्याऽधिपतिर्यादसामिव ।। ३८२ ।। शिरस्त्राणं च शिरसि, न्यधत्त धरणीधवः । शैलशृङ्गनिविष्यभ्रमण्डलश्रीविडम्बकम् ।। ३८३ ।। पृष्ठेऽबध्नाच्च तूणीरौ, लोहनाराचपूरितौ । महाफणिगणाकीर्णपातालविवरोपमौ ।। ३८४ ॥ युगान्तसमयोदस्तयमदण्डसहोदरम् । कोदण्डं वामदोर्दण्डे, धारयामास भूपतिः ।। ३८५ ।। आशास्यमानः स्वस्तीति, सौवस्तिकवरैः पुरः । जीव जीवेत्युच्यमानः, स्वगोत्रजरतीजनैः ।। ३८६ ।। नन्द नन्देत्युच्यमानो, जरदाप्तजनैः पुनः । चिरं जय जयेत्युच्चैर्गद्यमानश्च बन्दिभिः ॥ ३८७ ।। मेरुशृङ्गमिव स्वारोट, महेभं स महाभुजः । आरुरोहाऽऽरोहकेण, दत्तहस्तावलम्बनः ।।३८८॥
॥त्रिभिर्विशेषकम् ।। इतस्तदानीमेव श्रीभरतेशोऽपि पुण्यधीः । जगाम देवतागारं, कोशागारं शुभश्रियः ।। ३८९ ।। प्रतिमामादिनाथस्य, स्नपयामास तत्र सः । दिग्जयानीतपद्मादितीर्थतोयैर्महामनाः ।। ३९०॥ ममार्ज राजशार्दूलो, देवदूष्येण वाससा । प्रतिमा तामप्रतिमां, शिल्पिवर्यो मणीनिव ? || ३९१ ॥ १ वज्रकवचम् । २ विपुलप्रवालसमूहेन । ३ यादसा अधिपतिः समुद्रः । ४ पुरोहितैः । ५ इन्द्रः । * शिवश्रि
भरतबाहुबलियुद्धम् ।
।। २६८ ॥