________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व पञ्चमः सर्गः |श्रीऋषभस्वामिचरितम् ।
॥२६९ ।।
भरत
हिमाचलकुमारादिदत्तैर्गोशीर्षचन्दनैः । विलिलेप प्रतिमां तां, स्वयशोभिरिवाऽवनीम् ।।३९२ ।। पद्धैर्विकस्वरैः पद्मासद्मपद्मसहोदरैः । रचयामास पूजां च, नयनस्तम्भनौषधीम् ।।३९३ ॥ प्रतिमायाः पुरो धूपं, निर्ददाह महीपतिः । आलिखन्निव कस्तूरीपत्राली धूमवल्लिभिः ॥३९४ ॥ निःशेषकर्मसमिधामग्निकुण्डमिवोल्बणम् । आदत्ताऽऽरात्रिकं दीप्रदीपकं राजदीपकः ।। ३९५ ॥ तदुत्तार्याऽऽदिनाथाय, नमस्कृत्य च भूपतिः । विरचय्याऽअलि मूर्ध्नि, स्तोतुमित्युपचक्रमे ॥ ३९६ ॥ त्वां जडोऽपि जगन्नाथ !, युक्तमानी स्तवीम्यहम् । लल्ला अपि हि बालानां, युक्ता एव गिरो गुरौ ।।३९७ ॥ देव ! त्वामाश्रयन् जन्तुर्गुरुकर्माऽपि सिध्यति । अयोऽपि हेमीभवति, स्पर्शात सिद्धरसस्य हि ॥३९८ ॥ त्वां ध्यायन्तः स्तुवन्तश्च, पूजयन्तश्च देहिनः । धन्याः स्वामिन्नाददते, मनोवाग्वपुषां फलम् ।। ३९९ ।। पृथ्व्यां विहरतः स्वामिन्नपि ते पादरेणवः । महामतङ्गजायन्ते, पापद्रून्मूलने नृणाम् ।। ४०० ॥ नैसर्गिकेण मोहेन, जन्मान्धानां शरीरिणाम् । विवेकलोचनं नाथ !, त्वमेको दातुमीशिषे ॥ ४०१ ॥ सुचिरं चैश्चरीकन्ति, ये भवत्पादपद्मयोः । तेषां न दूरे लोकाग्रं, मेर्वादि मनसामिव ।। ४०२ ॥ देव ! त्वद्देशनावाग्भिर्गलन्त्याशु शरीरिणाम् । कर्मपाशा जम्बुफलानीव वारिदवारिभिः ॥४०३ ॥ इदं याचे जगन्नाथ !, त्वां प्रणम्य मुहर्मुहुः । त्वयि भक्तिस्त्वत्प्रसादादक्षयाऽस्त्वब्धिवारिवत् ।। ४०४ ।। आदिनाथमिति स्तुत्वा, नमस्कृत्य च भक्तिमान् । निर्ययौ देवतागारान्नरदेवदिवाकरः ।। ४०५ ॥ भूयो भूयोऽपि शिथिलीकृत्य माने विनिर्मितम् । अङ्गेन हर्षोच्छ्रसितेनाऽऽददे कवचं नृपः ।। ४०६ ॥ १ लक्ष्मीगृहपद्मसदृशैः । २ समग्रकर्मकाष्ठानाम् । ३ स्खलिताः । ४ सुवर्णीभवति । ५ भ्रमरायन्ते । * एकं
बाहुबलियुद्धम् ।
॥२६९ ।।