________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथम पर्व | पञ्चमः सर्गः श्रीऋषभस्वामिचरितम् ।
॥२६७॥
अथ बाहुबलिः स्नात्वा, प्रययौ देवमर्चितुम् । देवागारे गरीयांसः, कार्ये गुप्यन्ति न क्वचित् ।। ३६४ ।। ऋषभस्वामिनस्तत्र, प्रतिमां गन्धवारिभिः । भक्त्या सोऽस्नपयज्जन्माभिषेक इव वासवः ॥३६५ ।। दिव्यया गन्धकाषाय्या, निष्कषायस्ततः स ताम् । ममार्ज परमश्राद्धः, श्रद्धयेव निजं मनः ।। ३६६ ।। प्रतिमायास्ततो यक्षकर्दमेन विलेपनम् । चक्रे दिव्यांशुकमयं, रचयन्निव चोलकम् ।। ३६७ ॥ राजा जिनार्चामानर्च, विचित्रैः पुष्पदामभिः । सुरद्रुसुमनोदामसोदरैरिव सौरभात् ।। ३६८ ॥ सौवर्णे धूपदहने, दिव्यं धूपं ददाह च । तद्धमै रचयन् पूजां, नीलोत्पलमयीमिव ।। ३६९ ।। ततः कृतोतरासगो, मकरस्थ इवाऽर्यमा । प्रतापमिव जग्राहाऽऽरात्रिकं दीप्रदीपकम् ॥३७० ।। तदाऽऽरात्रिकमुत्तार्य, प्रणम्य च कृताञ्जलिः । आदिनाथं बाहुबलिर्भक्तिमानेवमस्तवीत् ।। ३७१ ।। अवज्ञायाऽज्ञतां स्वस्य, सर्वज्ञ ! त्वां स्तवीम्यहम् । यन्मां मुखरयत्येषा, दुर्वारा भक्तिमानिता ।। ३७२ ।। जयन्त्यादिमतीर्थेश!, त्वत्पादनखदीप्तयः । वज्रपञ्जरतां यान्त्यो, भवारित्रस्तदेहिनाम् ।।३७३ ।। देव ! त्वच्चरणाम्भोजमीक्षितुं राजहंसवत् । धन्याः प्रतिदिनं दूरादपि धावन्ति देहिनः ॥ ३७४ ।। घोरसंसारदुःखातैः, शीतातरिव भास्करः । शरणीक्रियसे देव!, त्वमेवैको विवेकिभिः ॥३७५ ॥ ये त्वां पश्यन्ति भगवन् !, नेत्रैरनिमिषैर्मुदा । परलोकेऽप्यनिर्मिषीभावस्तेषां न दुर्लभः ।। ३७६ ।। देव ! त्वद्देशनावाग्भिर्याति कर्ममलो नृणाम् । क्षीरेण क्षौमवस्त्राणामिव मालिन्यमाञ्जनम् ।। ३७७ ॥ १ महान्तः । २ सुगन्धिद्रव्यमिश्रितविलेपनविशेषण । ३ कल्पवृक्षपुष्पमालासमानैरिव । ४ कृतः उत्तरासगो येन सः, सूर्यपक्षे कृतः उत्तरदिशः सङ्गो येन सः । ५ मकरराशिस्थितः । ६ सूर्यः ।७ संसाररिपुत्रस्तप्राणिनाम् । ८ देवत्वम् । ९ कज्ज्लसम्बन्धि ।
भरतबाहुबलियुद्धम् ।
॥२६७ ॥