________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व चतुर्थः सर्गः श्रीऋषभस्वामिचरितम् ।
॥२३१ ।।
पादाधःस्थतया तस्य, नवाऽपि निधयोऽनिशम् । हेमाब्जानीव वृषभप्रभोर्विहरतोऽभवन् ॥७१६ ॥ सदा षोडशभिर्देवसहस्रः पारिपार्श्विकैः । अनल्पवेतनक्रीतैरात्मरक्षरिवाऽऽवृतः ॥७१७ ॥ नृपाणां नृपकन्यानामिव निर्भरभक्तितः । द्वात्रिंशता सहस्रैः स, निरन्तरमुपास्यत ॥७१८ ।। द्वात्रिंशता सहौः स, नाटकानामिवाऽनिशम् । जानपदीनां कन्यानामरंस्ताऽवनिवासवः ॥ ७१९ ।। स जगत्यामेकभूपः, सूपकारवरैरभात् । शतैस्त्रिभिस्त्रिषष्ट्यग्रैर्वासरैरिव वत्सरः ।। ७२० ॥ श्रेणिप्रश्रेणिभिः सोऽष्टादशभिः पृथिवीतले । प्रावर्तयद् व्यवहारं, लिपिभिर्नाभिभूरिव ।। ७२१ ।। लक्षश्चतुरशीत्याऽभात्, स रथद्विपवाजिनाम् । प्रत्येक ग्रामपत्तीनां, षण्णवत्या च कोटिभिः ॥ ७२२ ॥ द्वात्रिंशतो जनपदसहस्राणामधीश्वरः । द्वासप्ततेः पुरवरसहस्राणां च स प्रभुः ।।७२३ ।। सहस्रोनद्रोणमुखलक्षस्याऽधिपतिश्च सः । पत्तनाष्टाचत्वारिंशत्सहस्राणां च सोऽधिभूः ।। ७२४ ।। कर्बटानां मडम्बानामिव साडम्बरश्रियाम् । चतुर्विंशतिसहस्रसङ्ख्यातानां स ईशिता ।। ७२५ ॥ स विंशतिसहस्राणामाकराणां करेश्वरः । तथा खेटसहस्राणां, षोडशानां प्रशासिता ॥७२६ ।। चतुर्दशानां सम्बाधसहस्राणामपि प्रभुः । अधिपोऽन्तरोदेकानां, स षट्पञ्चाशतोऽपि च ॥७२७ ॥ १ बहुमूल्यक्रीतैः । २ अन्तरद्वीपानाम् ।
भरतस्य राज्यर्द्धिः ।
॥२३१ ।।