________________
प्रथम पर्व
त्रिषष्टिशलाकापुरुषचरिते
चतुर्थः
सर्गः श्रीऋषभस्वामिचरितम् ।
॥२३२ ॥
सुन्दरी
पञ्चाशतः कुराज्यानामेकोनायाश्च नायकः । स मध्ये भरतक्षेत्रमन्येषामपि शासिता ।। ७२८ ।। विनीतायां स्थितः कुर्वन्नाधिपत्यमखण्डितम् । अभिषेकोत्सवप्रान्ते, स्मर्तुं प्रववृते स्वकान् ।। ७२९ ॥ षष्टि वर्षसहस्राणि, विरहाद् दर्शनोत्सुकान् । अदर्शयन् निजान् राज्ञो, नियुक्तपुरुषास्ततः ।। ७३०॥ ततः कृशां ग्रीष्मकालाक्रान्तामिव तरङ्गिणीम् । म्लानां हिमानीसम्पर्कवशादिव सरोजिनीम् ॥७३१ :! प्रनष्टरुपलावण्यां, हैमनेन्दुकलामिव । पाण्डुक्षामकपोलां च, रम्भां शुष्कदलामिव ।। ७३२ ।। सोदरां बाहुबलिनः, सुन्दरी गुणसुन्दरः । नामग्राहं स्वपुरुषैर्दर्घामानां ददर्श सः ।।७३३ ।। ।। त्रिभिर्विशेषकम्।। तथाविधां च सम्प्रेक्ष्य, तां परावर्तितामिव । सकोपमवनीपालः, स्वायुक्तानित्यवोचत ।। ७३४ ॥ किं कदाप्यस्मदीयेऽपि, सदने नौदनान्यरे! ? |न किं लवणपाथोधौ, विद्यन्ते लवणान्यपि ? || ७३५ ।। सूपकारा न कि सन्ति, तत्तद्रसवतीविदः ? । निरादराः किमथवा, तहमी वृत्तितस्कराः ? ।। ७३६ ॥ द्राक्षाखर्जूरमुख्यानि, स्वाद्यान्यपि हि नेह किम् ? । न हि किं विद्यते स्वर्णमपि स्वर्णशिलोच्चये ? ॥७३७ ॥ किमुद्यानेषु ते वृक्षा, बभूवुरवेकेशिनः ? । फलन्ति तरवः किं हि, न नन्दनवनेऽपि हि ? ॥७३८ ॥ न वा दुग्धानि धेनूना, घटोनीनामपीह किम् ? । किं नु शुष्कस्तनस्रोताः, साता कामगव्यपि ? |७३९ ॥ अथ भोज्यादिसम्पत्सु, सतीष्वपि हि सुन्दरी । न किञ्चिदश्नाति यदि, तदसावामयाविनी ।। ७४० ॥ आमयः कोऽपि चेदस्याः, कायसौष्ठवतस्करः । तत् किं बभूवुः सर्वेऽपि, कथाशेषा भिषग्वराः ? ॥७४१ ।। १ हेमन्तकालचन्द्रकलामिव । २ कदलीम् । ३ परावर्तितरुपामिव । ४ आजीविकाचौराः । ५ निष्फलाः । ६ कामधेनुः । ७ रोगिणी । ८ रोगः । ९ मृत्युङ्गताः । १० वैद्याः ।
दृष्ट्वा भरतस्य चिन्ता ।
।।२३२ ।।