SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व चतुर्थः सर्गः श्रीऋषभस्वामिचरितम् । ।।२३३ ॥ यदि चौषधयो दिव्याः, प्राप्यन्ते नाऽस्मदोकसि । तदौषधीभी रहितो, हिमाद्रिरपि सम्प्रति ।। ७४२ ।। दूये पश्यन्निमां क्षामां, दरिद्रतनयामिव । तदहो ! वैरिभिरिव, भवद्भिर्वञ्चितोऽस्म्यहम् ॥ ७४३ ॥ प्रणम्य भरतं तेऽपि, प्रोचुरेवं नियोगिनः । सर्वमप्यस्ति देवस्य, देवेन्द्रस्येव सद्मनि ।। ७४४ ॥ किन्तु देवो यदाद्यगाद्, दिग्जयाय तदाद्यसौ । आचामाम्लानि कुरुते, प्राणत्राणाय केवलम् ।। ७४५ ॥ तथा यदैव देवेन, प्रव्रजन्ती न्यषिध्यत । ततः प्रभृत्यसौ तस्थौ, भावतः संयतैव हि ॥ ७४६ ॥ केल्याणिनेयि ! कल्याणि!, प्रविजिषसीति सा । अनुयुक्ता महीनाथेनैवमेवेत्यवोचत ॥ ७४७ ॥ भरतोऽप्यभ्यधादेवं, प्रमादेनाऽऽर्जवेन वा । अहमस्या इयत्कालं, व्रतविघ्नकरोऽभवम् ।। ७४८ ॥ अपत्यं तातपादानामनुरुपमसौ खलु । असक्तं विषयासक्ता, राज्यातृप्ताश्च के वयम् ? ॥७४९ ।। आयुर्विनश्वरतरं, वार्द्धिवारितरङ्गवत् । जानन्तोऽपि न जानन्ति, जना विषयगृधनवः ॥७५० ॥ गत्वरेणाऽऽयुषाऽनेन, मोक्षः साध्येत साधु तत् । मार्गावलोकनमिव, विद्युता दृष्टनष्टया ।। ७५१ ।। यकृच्छकृन्मूत्रमलस्वेदामयमयस्य तत् । प्रसाधनं वपुषस्तद्, गृहस्रोतोऽधिवासनम् ॥७५२ ।। आदत्से वपुषाऽनेन, साधु मोक्षफलं व्रतम् । क्षीराब्धितोऽपि रत्नानि, गृह्णन्ति निपुणाः खलु ॥७५३ ।। अनुज्ञाता नरेन्द्रेण, मुदितेन व्रताय सा । तपःकृशाऽप्यकृशेव, प्रमदोच्छ्रसिताऽभवत् ।। ७५४ ।। १ यतः प्रभृति ।२ दीक्षिता । ३ कल्याण्याः अपत्यं कल्याणिनेयी तत्सम्बुद्धौ । ४ प्रव्रजितुमिच्छसि । ५ पृष्य । ६ निरन्तरम् ।७ कुक्षौ दक्षिणभागस्थो मांसपिण्डः । ८ विष्ठा ।९ मण्डनम् । सुन्दरीदीक्षोपक्रमः । ॥२३३ ॥
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy