________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
चतुर्थः
सर्गः श्रीऋषभस्वामिचरितम् ।
।। २३४ ॥
अत्रान्तरे च भगवान्, विहरन् वृषभध्वजः । अष्टापदगिरावागाज्जगद्बर्हिबलाहकः ।।७५५ ।। चक्रुश्च देवाः समवसरणं तत्र पर्वते । अपरं पर्वतमिव, रत्नकाञ्चनरुप्यजम् ।। ७५६ ॥ कुर्वाणं देशनां तत्र, स्वामिनं गिरिपालकाः । एत्य विज्ञपयामासुर्भरतस्वामिने द्रुतम् ।।७५७ ।। षट्खण्डभरतक्षेत्रविजयादधिकं ततः । तमुंदन्तं समाकर्ण्य, मुमुदे मेदिनीपतिः ।।७५८ ॥ स्वामिनमागमयद्भ्यो भृत्येभ्यः पारितोषिकम् । ददौ कोटीः सुवर्णस्य, सार्द्धा द्वादश पार्थिवः ॥७५९ ।। त्वन्मनोरथसंसिद्धिरिव मूर्त्ता जगद्गुरुः । विहरन्नाजगामेह, सुन्दरीमित्युवाच च ।। ७६० ।। अकारयन्निष्क्रमणाभिषेकं भरतेश्वरः । तस्याः स्वान्तःपुरवधूर्जनैसीजनैरिव ।। ७६१ ॥ कृतस्नानाऽथ सा सद्यः, कृतपुण्यविलेपना । विलेपनान्तरमिव, पर्यधात् सदशांशुके ॥७६२ ॥ आमुमोच च सा रत्नालङ्कारानुत्तमानथ । तस्याः शीलमलङ्कारोऽलङ्काराः प्रक्रियाकृते ।।७६३ ।। तथास्थितायाः सुन्दर्याः, पुरतो रुपसम्पदा । स्त्रीरत्नं सा सुभद्राऽपि, चेटीव॑त् प्रत्यभासत ।।७६४ ।। यो यद् ययाचे तत् तस्मै, वितताराऽविलम्बितम् । जङ्गमा कल्पवल्लीव, सुन्दरी शीलसुन्दरी ।। ७६५ ।। कर्पूरधूलिधवलैर्वासोभिरुपशोभिता । कुमुदिनी मेरालीव, शिबिकामारुरोह सा ॥७६६ ॥ निषादिसादिपादातस्यन्दनच्छन्नभूमिना । अन्वयायि नरेन्द्रेण, मरुदेवीव सुन्दरी ।। ७६७ ॥ वीज्यमाना चामराभ्यां, श्वेतच्छत्रेण शोभिता । वैतालिकैः स्तूयमाननिबिडव्रतसंश्रवा ।। ७६८ ॥ १ जगन्मयूरमेघः । २ वृत्तान्तम् । ३ आचारार्थम् । ४ दासीवत् । ५ हंसीव ।
सुन्दरीदीक्षोपक्रमः ।
।।२३४ ।।