________________
त्रिषष्टि
शलाकापुरुषचरि
।। २३५ ।।
भ्रातृजायाभिरुद्गीतप्रव्रज्योत्सवमङ्गला । उत्तार्यमाणलवणा, वरस्त्रीभिः पदे पदे ।। ७६९ ।। राजन्ती सह गच्छद्भिः, पूर्णपात्रैरनेकशः । स्वामिपादपवित्रं सा, प्रापदष्टापदाचलम् ॥ ७७० ।। ॥ त्रिभिर्विशेषकम् ।। सच्चन्द्रमिव पूर्वाद्रिं, तमद्रिं स्वाम्यधिष्ठितम् । दृष्ट्वा भरतसुन्दर्यौ, महान्तं हर्षमीयतुः ।। ७७१ ।। स्वर्गापवर्गयो राज्यं, सोपानमिव विस्तृतम् । तं विशालशिलं शैलं समारुरुहतुश्च तौ ॥ ७७२ ।। ततः समवसरणं, शरणं भवभीजुषाम् । तौ प्रापतुश्चतुर्द्वारं, सङ्क्षिप्तां जगतीमिव ॥ ७७३ ॥ भरतेश्वरसुन्दर्यावुत्तरद्वारवर्त्मना । अथो समवसरणं, विशतः स्म यथाविधि ।। ७७४ ।। समं हर्षविनेयाभ्यामुच्छ्रसत्सङ्कुचत्तनू । प्रदक्षिणीचक्रतुस्तावथ त्रिः परमेश्वरम् ।। ७७५ ।। पञ्चाङ्गस्पृष्टभूमिकौ, नेमतुश्च जगत्पतिम् । रत्नभूतलसङ्क्रान्तमपि द्रष्टुमिवोत्सुकौ ।। ७७६ ।। चक्रवर्ती ततो धर्मचक्रवर्तिनमादिमम् । स्तोतुं प्रचक्रमे चारुगिरा भक्तिपवित्रया ॥ ७७७ ॥ असद्भूतान् गुणान् जल्पन्, जनः स्तौतीतरं जनम् । गुणान् सतोऽपि ते वक्तुमक्षमोऽहं स्तुवे कथम् ? ॥ ७७८ ॥ तथापि हि जगन्नाथ !, करिष्यामि तव स्तुतिम् । न ददाति दरिद्रः किं श्रीमतामप्युपायनम् ? ।। ७७९ ।। युष्मत्पादैर्दृष्टमात्रैरन्यजन्मकृतान्यपि । गलन्त्येनासि शेफालीपुष्पाणीन्दुकरैरिव ॥ ७८० ॥ दुश्चिकित्समहामोहसन्निपातवतामपि । स्वामिन् ! जयन्ति ते वाचोऽमृतौषधिरसोपमाः ।। ७८१ ॥ चक्रवर्त्तिनि रहे वा, कारणं प्रीतिसम्पदाम् । समास्त्वद्दृष्टयो नाथ !, वार्षिक्य इव वृष्टयः ॥ ७८२ ॥ १ संसारभयवताम् । २ हर्षेणोच्छ्रसन्त्यौ विनयेन सङ्कुचन्त्यौ तनू कायौ ययोस्तौ । ३ पापानि ।
प्रथमं पर्व चतुर्थः
सर्गः श्रीऋषभ
स्वामि
चरितम् ।
भरत - सुन्दरी
भ्यां विहिता
ऋषभप्रभोः
स्तुतिः, सुन्दरी
दीक्षा च ।
।। २३५ ।।