________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व चतुर्थः सर्गः श्रीऋषभस्वामिचरितम् ।
।। २३६ ॥
क्रूरकर्महिमग्रन्थिविद्रावणदिवाकरः । स्वामिन्नस्मादृशां पुण्यैरिमा विहरसे महीम् ।। ७८३ ।। शब्दानुशासनव्यापिसंज्ञासूत्रोपमा प्रभो ! । जन्मव्ययध्रौव्यमयी, जयति त्रिपदी तव ।। ७८४ ॥ यस्त्वां स्तौतीह भगवंस्तस्याऽप्येषोऽन्तिमो भवः । शुश्रूषते ध्यायति वा, यः पुनस्तस्य का कथा ? |७८५ ॥ ॐ भगवन्तमिति स्तुत्वा, नत्वा च भरतेश्वरः । पूर्वोत्तरस्यां ककुभि, निषसाद यथोचितम् ।।७८६ ।। सुन्दर्यपि हि वन्दित्वा, स्वामिनं वृषभध्वजम् । कृताञ्जलिर्जगादैवं, गद्गदाक्षरया गिरा ।। ७८७ ॥ मनसा दृश्यमानोऽभूरियत्कालं जगत्पते ! । प्रत्यक्षं बहुभिः पुण्यैर्दिष्ट्या दृष्टोऽसि सम्प्रति ।।७८८ ।। मृगतृष्णोपमसुखे, संसारमरुमण्डले । पुण्यैः प्राप्तोऽसि लोकेन, त्वं पीयूषमहाह्रदः ।। ७८९ ।। निर्ममोऽपि जगन्नाथ !, जगतोऽप्यसि वत्सलः । कथं विषमदुःखाब्धेस्तत्समुद्धरसेऽन्यथा ? ||७९० ।। कृतिनी स्वामिनी ब्राह्मी, भ्रातृव्याः कृतिनो मम । भ्रातृव्यजाश्च कृतिनो, ये हि त्वत्पथमन्वगुः ।। ७९१ ॥ भरतेशोपरोधेन, यन्मयाऽग्राहि न व्रतम् । भगवंस्तदियत्कालं, स्वयमेवाऽस्मि वञ्चिता ।। ७९२ ।। विश्वतारक ! मां दीनां, तात ! तारय तारय । गृहोद्योतकरो दीपः, कि नोद्योतयते घटम् ? ॥७९३ ।। प्रसीद देहि दीक्षां मे, विश्वत्राणैकदीक्षित !। संसाराम्भोधितरणयानपात्रनिभां विभो ! ॥७९४ ।। साधु साधु महासत्त्वे !, ब्रुवन्निति ददौ विभुः । तस्यै दीक्षा सामायिकसूत्रोच्चारणपूर्विकाम् ।। ७९५ ।। महाव्रतद्रुमारामसुधासारणिसन्निभाम् । अनुशिष्टिमयीं तस्यै, देशनां विदधे विभुः ।। ७९६ ।। मोक्षप्राप्तमिवाऽऽत्मानं, मन्यमाना महामनाः । अनुज्येष्ठं निषसाद, सा मध्येव्रतिनीगणम् ॥७९७ ॥ १ कृतार्था । २ भ्रातृपुत्राः । ३ शिक्षामयीम् ।
भरत-सुदरीभ्यां विहिता ऋषभप्रभोः स्तुतिः,
सुन्दरी
दीक्षा च ।
।। २३६ ॥