________________
त्रिषष्टिशलाका
प्रथमं पर्व
चतुर्थः
पुरुषचरिते
सर्गः श्रीऋषभस्वामिचरितम् ।
॥२३७॥
देशनां स्वामिनः श्रुत्वा, पादपद्मे प्रणम्य च । ययावयोध्यां नगरी, मुदितो भरतेश्वरः ॥ ७९८ ।। दिदृक्षोः स्वं जनं सर्वं, पुनस्तस्याऽधिकारिभिः । आगताः समदर्श्यन्ताऽस्मार्यन्ताऽनागता अपि ॥७९९ ॥3 भ्रातृननागतान् ज्ञात्वा, स्वाभिषेकोत्सवेऽपि तान् । तेषामेकैकशो दूतान्, प्राहिणोद् भरतेश्वरः ।। ८००॥ राज्यानि चेत् समीहध्वे, सेवध्वं भरतं ततः । दूतैरित्युदिताः सर्वेऽप्यालोच्यैवाऽवदन्निदम् ।। ८०१ ।। विभज्य राज्यं दत्तं नस्तातेन भरतस्य च । संसेव्यमानो भरतोऽधिकं किं नः करिष्यति ? || ८०२ ॥ समापतन्तं किं काले, कालं प्रस्खलयिष्यति ? । किं जराराक्षसी देहग्राहिणीं निग्रहीष्यति ? ||८०३ ॥ बाधाविधायिनः किं वा, व्याधिव्याधान् हनिष्यति ? । यथोत्तरं वर्द्धमानां, यद्वा तृष्णां दलिष्यति ? ।। ८०४ ॥ ईदृक् सेवाफलं दातुं, न चेद् भरत ईश्वरः । मनुष्यभावे सामान्ये, तर्हि कः केन सेव्यताम् ।। ८०५ ।। प्राज्यराज्योऽप्यसन्तोषादस्मद्राज्यं जिघृक्षति । स्थाना चेत् तद् वयमपि, तस्य तातस्य सूनवः ।। ८०६ ।। अविज्ञपय्य तातं तु, सोदर्येणाऽग्रजन्मना । त्वदीयस्वामिना योद्ध, न वयं प्रोत्सहामहे ।। ८०७ ॥ ते दूतानभिधायैवं, तदैवाऽष्टापदाचले । स्थितं समवसरणे, वृषभस्वामिनं ययुः ।। ८०८ ॥ त्रिश्च प्रदक्षिणीकृत्य, प्रणेमुः परमेश्वरम् । शिरःसु बद्धाञ्जलयः, सर्वेऽप्येवं स्तुति व्यधुः ।। ८०९ ।। देवैरप्यपरिज्ञेयगुणं कः स्तोतुमीश्वरः ? । त्वां स्तोष्यामस्तथापीश!, विलसद्बालचापलाः ।। ८१० ॥ तपस्यतामप्यधिकास्त्वां नमस्यन्ति ये सदा । वरिवस्यन्ति ये तु त्वां, योगिनामपि तेऽधिकाः ॥ ८११ ।। नमस्यतां प्रतिदिनं, विश्वालोकदिनेश्वर! । धन्यानामैवतंसन्ति, त्वत्पादनखरश्मयः ।। ८१२ ॥ १ रोगरुपव्याधान् । २ बलेन । ३ सेवन्ते । ४ हे विश्वप्रकाशसूर्य । ५ अवतंसवदाचरन्ति ।
भरतेन भ्रातृन् प्रति दूतप्रेषणम् ।
॥२३७॥