________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
चतुर्थः
सर्गः श्रीऋषभस्वामिचरितम् ।
॥२३८ ॥
न किञ्चित् कस्यचित् साम्ना, बलाद् वा गृह्यते त्वया । त्रैलोक्यचक्रवर्ती त्वं, तथाऽप्यसि जगत्पते! ।। ८१३ ।। स्वामिंस्त्वमेको जगतां, समं चेतःसु वर्त्तसे । पीयूषदीधितिः सर्वजलाशयजलेष्विव ।। ८१४ ।। त्वां स्तोता स्तूयते देव!, सर्वस्त्वामर्चिताऽर्च्यते । त्वां नन्ता नम्यते सर्वा, त्वयि भक्तिर्महाफला ॥ ८१५ ॥ त्वं देव ! दुःखदावाग्नितप्तानामेकवारिदः । मोहान्धकारमूढानामेकदीपरत्वमेव हि ।। ८१६ ।। रोराणामीश्चराणां च, मूर्खाणां गुणिनामपि । साधारणोपकारी त्वं, छायाद्रुम इवाऽध्वनि ।। ८१७ ॥ इति स्तुत्वा भ्रमरवत्, स्वामिपादारविन्दयोः । निवेशितदृशस्तेऽथ, सम्भूयैवं व्यजिज्ञपन् ।। ८१८ ।। तदानीं तातपादैनः, संविभज्य पृथक् पृथक् । देशराज्यानि दत्तानि, यथार्ह भरतस्य च ।। ८१९ ॥ तैरेव राज्यैः सन्तुष्टास्तिष्ठामो विष्टपेश्वर! । विनीतानामलङ्या हि, मर्यादा स्वामिदर्शिता ।। ८२० ।। स्वराज्येनाऽन्यराज्यैश्चाऽपहृतैर्भरतेश्वरः । न सन्तुष्यति भगवन् !, वडवामिरिवाऽम्बुभिः ।। ८२१ ।। आचिच्छेद यथाऽन्येषां, राज्यानि पृथिवीभुजाम् । अस्माकमपि भरतस्तद्वदाच्छेतुमिच्छति ।। ८२२ ।। त्यज्यन्तामाशु राज्यानि, सेवा वा क्रियतां मम । आदिदेशेति पुरुषैर्भरतो नः परानिव ।। ८२३ ।। वचोमात्रेण मुञ्चामस्तस्याऽऽत्मबहुमानिनः । तातदत्तानि राज्यानि, क्लीबा इव कथं वयम् ? ।। ८२४ ॥ सेवामपि कथं कुर्मो, निरीहा अधिकर्धिषु ? । अतृप्ता एव कुर्वन्ति, सेवां मानविघातिनीम् ।। ८२५ ।। राज्यामुक्तावसेवायां, युद्धं स्वयमुपस्थितम् । तातपादांस्त्वनापृच्छ्य, न किञ्चित् कर्तुमीश्महे ।। ८२६ ॥ अम्लानकेवलज्ञानसङ्क्रान्ताशेषविष्टपः । कृपावान् भगवानादिनाथोऽपीत्यादिदेश तान् ॥ ८२७ ॥ १ चन्द्रः । २ दीनानाम् । ३ हे जगदीश्वर । ४ नपुंसकाः । ५ निःस्पृहाः । ६ अमोचने । ७ सेवाया अकरणे ।
भरतभ्रातॄणां प्रभोः समीपे आगमनम् ।
॥२३८॥