________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व चतुर्थः सर्गः श्रीऋषभस्वामि
॥२३०॥
चरितम् ।
तत् तथा तत्क्षणादेव, ते चक्रुरधिकारिणः । रत्नं पञ्चदशं ह्याज्ञा, चक्रिणः कार्यसिद्धिषु ॥७०१ ॥ रत्नसिंहासनात् तस्मादुत्तस्थावथ पार्थिवः । प्रतिबिम्बानि तस्येवाऽन्येऽप्युत्तस्थुः सहैव हि ॥७०२ ।। निजागमनमार्गेणोत्ततार भरतेश्वरः । तथाऽन्येऽप्युत्तरन्ति स्म, स्नानपीठाद् गिरेरिव ।। ७०३ ।। स्वप्रतापमिवाऽसह्यमारुह्य वरहस्तिनम् । महीपतिर्महोत्साहः, प्रासादमगमन्निजम् ।। ७०४ ।। तत्र स्नानगृहं गत्वा, तोयैः स्नात्वा च निर्मलैः । चकाराऽष्टमभक्तान्तपारणं धरणीधवः ।। ७०५ ।। अभिषेकोत्सवे वृत्ते, तस्मिन् द्वादशवार्षिके । स्नातः कृतबलिः प्रायश्चित्तकौतुकमङ्गली ।। ७०६ ।। गत्वा च बहिरास्थानीमात्मरक्षकदेवताः । तान् षोडश सहस्राणि, सत्कृत्य व्यसृजन्नृपः ।। ७०७ ।। ततश्च प्रासादवरारुढो वैषयिकं सुखम् । भुआनोऽस्थाद् विमानस्थ, इव शक्रो महीपतिः ।। ७०८ ।। चक्रं छत्रमसिर्दण्डो, रत्नान्येतानि जज्ञिरे । एकेन्द्रियाणि चत्वारि, तस्याऽऽयुधनिकेतने ।। ७०९ ।। काकिणीचर्ममणयो, निधयो नव चाऽभवन् । श्रीगृहे श्रीमतस्तस्य, माणिक्यानीव रोहणे ।। ७१० ॥ सेनापतिर्गृहपतिः, पुरोधो-वर्द्धकी अपि । चत्वारि नररत्नानि, स्वपुर्यां तस्य जज्ञिरे ॥७११ ॥ गजा-ऽश्वरत्ने वैताढ्यगिरेर्मूले बभूवतुः । उदग्विद्याधरश्रेण्यां, स्त्रीरत्नं तूदपद्यत ॥७१२ ।। नयनानन्ददायिन्या, मूर्त्या सोम इवाऽशुभत् । दुःसहेन प्रतापेन, भरतो भानुमानिव ॥७१३ ॥ अलब्धमध्यः सोऽम्भोधिरिव पुंरुपतां गतः । प्राप्तो मनुष्यधर्मेव, मनुष्यस्वामितां पुनः ॥७१४ ॥ अशोभत महारत्नैः, स चतुर्दशभिः सदा । जम्बूद्वीप इव गङ्गासिन्धुप्रभृतिसिन्धुभिः ।।७१५ ॥ १ आयुधशालायाम् । २ पुरोहितः ।
भरतस्य राज्यर्द्धिः।
॥२३०॥