SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका | प्रथम पर्व पुरुषचरिते चतुर्थः सर्गः ॥२२९ ।। श्रीऋषभस्वामिचरितम् । तं द्वात्रिंशत् सहस्राणि, शुभेऽभिषिषिचुः क्षणे । नृपाः कुम्भैलुंठत्तोयैर्हर्षात् स्वनयनैरिव ।। ६८६ ।। ते शिरस्यञ्जलीन् बवा, पद्मकोशसहोदरान् । चक्रिणं वर्द्धयामासुर्जय त्वं विजयस्व च ।। ६८७ ॥ सेनापतिप्रभृतयोऽपरे श्रेष्ठ्यादयश्च तम् । अभ्यषिञ्चन् जलैर्वाक्यैश्चाऽस्तुवंस्तैरिवोज्ज्वलैः ।। ६८८ ॥ शुचिपक्ष्मलया गन्धकाषाय्या सुकुमारया । माणिक्यमिव तस्याऽङ्गममृजन्नथ ते भृशम् ।। ६८९ ।। गोशीर्षचन्दनरसै, राज्ञो विलिलिपुश्च ते । कान्तिपोषकरैरङ्गं, गैरिकैरिव काञ्चनम् ।। ६९० ॥ शक्रप्रदत्तमृषभस्वामिनो मुकुटं ततः । मूर्ध्नि मूर्द्धाभिषिक्ताग्रेसरस्य निदधुः सुराः ।।६९१ ।। ते पर्यधापयन् राज्ञा, कर्णयो रत्नकुण्डले । चित्रास्वाती इव मुखहिमांशोः पारिपार्श्वगे ।। ६९२ ।। तत्कण्ठे ते न्यधुरिं, ग्रथितं शुचिमौक्तिकैः । अलक्ष्यसूत्रैर्युगपन्मालारुपोद्गमैरिव ।। ६९३ ॥ निवेशयाम्बभूवे चाऽर्द्धहारस्तैर्नृपोरसि । अलङ्करणराजस्य, हारस्य युवराडिव ।। ६९४ ॥ अभ्रकान्तःपुटमये, इवाऽच्छच्छविशालिनी । वाससी देवदूष्ये ते, भूभुजा पर्यधापयन् ।। ६९५ ॥ उद्दामं सुमनोदाम, नृपतेः कण्ठकन्दले । ते प्राक्षिपन्नुरोवेश्मच्छायावप्रमिव श्रियः ।। ६९६ ॥ कल्पद्रुम इवाऽनय॑वस्त्रमाणिक्यभूषणः । भूपतिर्मण्डयामास, स्वःखण्डमिव मण्डपम् ।। ६९७ ।। आह्वाय्य वेत्रिपुरुषैः, स सर्वपुरुषाग्रणीः । आयुक्तपुरुषानेवमादिदेश विशालधीः ॥ ६९८ ।। भो ! यूयं सिन्धुरस्कन्धमधिरुह्य समन्ततः । पर्यट्य च प्रतिपथं, विनीतां नगरीमिमाम् ॥ ६९९ ।।। अशुल्कामकरादण्डाकुदण्डामविशद्भटाम् । नित्यप्रमोदां कुरुत, वर्षद्वादशकावधिः ।। ७०० ।। ।युग्मम्।। १ अकरां अदण्डां अकुदण्डां इति पदत्रयस्य समासः । भरतस्य चक्रवर्तित्वमहोत्सवः । ।।२२९ ।।
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy