________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
चतुर्थः
सर्गः श्रीऋषभस्वामिचरितम् ।
।। २२८ ॥
हृदेभ्यो ह्रदिनीभ्यश्च, हुदिनीनाथतोऽपि च । तीर्थेभ्यश्चाऽऽहरन्नीरमौषधीर्मृत्तिकाश्च ते ।। ६७२ ।। गत्वा पौषधशालायां, राजाऽष्टमतपोऽग्रहीत् । राज्यं तपसाऽऽप्तमपि, तपसैव हि नन्दति ।। ६७३ ।। राजाऽष्टमे परिणमत्यन्तःपुरवृतो ययौ । वारणेन परीवारयुतस्तं दिव्यमण्डपम् ।। ६७४ ।। अन्तःपुरेण सह तैर्नाटकैश्च सहस्रशः । भरतः प्रविवेशाऽभिषेकमण्डपमुन्नतम् ।। ६७५ ।। स मृगेन्द्रासनं तत्र, स्नानपीठं मणीमयम् । चक्री प्रदक्षिणीचक्रे, मेरुशैलमिवाऽर्यमा ।। ६७६ ॥ पूर्वसोपानपद्धत्या, स्नानपीठं तदुच्चकैः । आरुरोह महीनाथः, शैलप्रस्थमिव द्विपः ।। ६७७ ॥ प्राचीपतेरिव प्रीत्या, प्राग्दिशोऽभिमुखस्ततः । रत्नसिंहासने तत्रोपाविशद् भरतेश्वरः ।। ६७८ ॥ ते द्वात्रिंशत्सहस्राणि, भूपाः कतिपया इव । सुखमारुरुहुः पीठमुदक्सोपानवर्त्मना ।। ६७९ ।। चक्रिणो नातिदूरोया, तस्थुर्भद्रासनेषु ते । बद्धाञ्जलिपुटा देवमिव वैन्दारवो नृपाः ।। ६८० ॥ सेनापतिर्गृहपतिर्वर्द्धकिश्च पुरोहितः । श्रेष्ठ्यादयोऽप्यारुरुहुर्याम्यसोपानमालया ।। ६८१ ॥ आसनेषु समासीनाः, स्वोचितेषु यथाक्रमम् । बद्धाञ्जलिपुटास्तस्थुर्विज्ञीप्सव इव प्रभुम् ।। ६८२ ॥ ततश्च नरदेवस्याऽऽदिदेवस्येव वासवाः । आभियोगिकदेवास्तेऽभिषेकाय डुढौकिरे ।। ६८३ ।। स्वाभाविकैवैक्रियैश्च, पयोगभैर्घनैरिव । वदनन्यस्तकमलै, रथाङ्गविहगैरिव ।। ६८४ ।। पतत्पानीयनादेन, तूर्यनादानुवादिभिः । ते रत्नकलसैश्चक्रुरभिषेकं महीपतेः ॥ ६८५ ॥ ॥ युग्मम् ॥ १ नदीभ्यः । २ समुद्रात् । ३ गजेन । ४ इन्द्रस्य । ५ वन्दनशीलाः । ६ चक्रवाकपक्षिभिः ।
भरतस्य चक्रवर्तित्वमहोत्सवः ।
&
॥२२८ ।।