________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व चतुर्थः
सर्गः
॥२२७॥
श्रीऋषभस्वामिचरितम् ।
ॐASSISASARASHRSSHAHSASRAS
आचार्य इव सम्पूज्य, स्वाधिष्ठायकदेवताः । ताः षोडश सहस्त्राणि, व्यसृजज्जगतीपतिः ।। ६५९ ।। तद्वद्वात्रिंशतं राजसहस्राणि चमूपतिम् । पुरोहितं गृहपति, वर्द्धकिं विससर्ज सः ॥ ६६० ॥ सूदांश्च स त्रिषष्टीनि, शतानि त्रीणि भूपतिः । स्वस्थानायाऽऽदिशद् दृष्ट्याऽऽलानायेव मतङ्गजान् ।।६६१ ।। श्रेष्ठिनोऽष्टादशश्रेणिप्रश्रेणीर्दुर्गपालकान् । व्यसृजत् सार्थवाहानप्युत्सवान्तेऽतिथीनिव ।। ६६२ ।। शक्रः शच्येव सहितः, स्त्रीरत्नेन सुभद्रया । द्वात्रिंशता सहस्रैश्च, राज्ञीनां राजजन्मनाम् ।। ६६३ ।। तावतीभिर्जनपदाग्रणीकन्याभिरावृतः । प्रत्येकं द्वात्रिंशत्पात्रैस्तावद्भिर्नाटकैरपि ।। ६६४ ॥ मणिरत्नशिलाश्रेणिविश्राणितदृगुत्सवम् । प्रासादं प्राविशद् भूपः, कैलासमिव यक्षराट् ॥ ६६५ ॥
॥त्रिभिर्विशेषकम् ।। तत्र च प्राङ्मुखः सिंहासने स्थित्वा क्षणं नृपः । कृत्वा च सङ्कथाः काश्चिद्, ययौ स्नाननिकेतनम् ।। ६६६ ।। सरसीव द्विपस्तत्र, कृत्वा स्नानं नरेश्वरः । समं परिजनैश्चक्रे, सुरसाहारभोजनम् ॥६६७ ।। तैर्नाटकैर्नवरसैः, सङ्गीतैश्च मनोरमैः । निनाय कालं कमपि, योगैर्योगीव भूपतिः ।। ६६८ ॥ तं च विज्ञपयामासुर्भक्त्या सुरनरा इति । सविद्याधरराजेयं, षट्खण्डाऽसाधि भूस्त्वया ।। ६६९ ।। अस्मांस्तदनुमन्यस्व, शंतमन्युपराक्रम ! । महाराज्याभिषेकं ते, स्वच्छन्दं कुर्महे यथा ।। ६७० ॥ राज्ञा तथेत्यनुज्ञाताः, सुराः पुर्या बहिर्व्यधुः । सुधर्मायाः खण्डमिव, पूर्वोदैग्दिशि मण्डपम् ।। ६७१ ।। १ पाचकान् । २ कुबेरः । ३ विद्याधरराजसहिता । ४ इन्द्रः । ५ ईशानदिशि
भरतस्य चक्रवर्तित्वमहोत्सवः ।
॥२२७॥