________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
चतुर्थः
सर्गः श्रीऋषभस्वामिचरितम् ।
।। २२६ ॥
ताडयन सणिदण्डेन, मध्येकुम्भस्थलं नृपः । मञ्चयोर्मञ्चयोरन्तः, स्थिरीचक्रे मतङ्गजम् ।। ६४५ ।। मञ्चानामुभयेषां चाऽग्रस्थाः प्रवरयोषितः । कर्पूरारात्रिकं चक्रर्युगपच्चक्रवर्तिनः ।। ६४६ ।। भूपतिः पार्श्वयोर्धाम्यज्ज्वलदारात्रिकस्तदा । बभारोभयपार्श्वस्थार्केन्दुमेरुगिरिश्रियम् ।। ६४७ ।। स्थालान्युत्क्षिप्य पूर्णानि, मौक्तिकैरक्षतैरिव । आपणाग्रे स्थितान् दृष्ट्याऽऽलिलिङ्गेच स वाणिजान् ।। ६४८ ॥ मार्गासन्नेषु हर्येषु, द्वारस्थकुलयोषिताम् । मङ्गलानि प्रतीयेषे, स्वसृणामिव पार्थिवः ।। ६४९ ।। दिदृक्षयाऽन्तिकीभूतान्, जनान् परिजनानिव । वेत्रिभ्योऽरक्षदुत्क्षिप्ताभयप्रदकरो नृपः ।। ६५० ।। अग्रभूमावुभयतो, बद्धाभ्यामतिबन्धुरम् । सिन्धुराभ्यां राज्यलक्ष्मीक्रीडाद्रिभ्यामिवौच्चकैः ॥६५१ ॥ द्वारेणोभयतः स्वर्णकुम्भाभ्यामतिशोभिना । स्रोतसेव रथाङ्गाभ्यां, विशालेन विराजितम् ।। ६५२ ।। माकन्ददलपूर्णेन, तोरणेनाऽतिहारिणा । इन्द्रनीलमयग्रीवाभरणेनेव भूषितम् ।। ६५३ ॥ क्वचिन्मुक्ताकणगणैः, क्वचित् कर्पूरपांशुभिः । क्वचिच्च चन्द्रमणिभिः, कृतस्वस्तिकमङ्गलम् ॥ ६५४ ॥ क्वचिच्च चीनवासोभिर्दुकूलवसनैः क्वचित् । देवदूष्यैरपि क्वाऽपि, पताकामालभारिणम् ।। ६५५ ॥ क्वचित् कर्पूरपानीयैः, पुष्पद्रुतिरसैः क्वचित् । क्वचिद् गजमदाम्भोभिरजिरे कृतसेचनम् ।। ६५६ ।। विश्रान्तपूषाणमिव, सुवर्णकलसच्छलात् । सप्तभूमं भूमिपालः, पित्र्यं प्रासादमासदत् ।। ६५७ ॥
॥सप्तभिः कुलकम्॥ तस्याऽङ्गणाग्रवलभीवेद्यां पादं निवेशयन् । उत्ततार द्विपाद् वेत्रिदत्तहस्तस्ततो नृपः ।। ६५८ ।। १ अड्डशेन । २ स्वीचकार । ३ भगिनीनाम् । ४ गजाम्याम् । ५ अङ्गणे । ६ सूर्यम् ।
प्रासादवर्णनम् ।
॥२२६ ॥