________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व चतुर्थः सर्गः श्रीऋषभस्वामिचरितम् ।
॥२२५ ॥
मङ्गल्यतूर्यनिर्घोषप्रतिशब्दापदेशतः । रोदसीभ्यामपि भृशं, कृतमाङ्गलिकध्वनिः ।। ६३१ ॥ तेजोबिडौजा नृपतिर्भाण्डागारमिवौजसाम् । यतेन कुञ्जरं किञ्चित्, प्रेरयन् प्रचचाल सः ।। ६३२ ॥
॥ अष्टभिः कुलकम्॥ अवतीर्णं दिव इव, भूमध्यादिव चोत्थितम् । चिरायातं नृपं द्रष्टुं, ग्रामादिभ्योऽभ्यगाज्जनः ॥६३३ ।। सा राज्ञः सकला सेना, लोकश्च मिलितो बभौ । मर्त्यलोकः समग्रोऽपि, पिण्डीभूत इवैकतः ।। ६३४ ।। नैरन्तर्यादनीकानां, लोकानां चाऽभ्युपेयुषाम् । मुक्तस्तिलोऽपि हि तदा, न पपात महीतले ।। ६३५ ।। स्तूयमानो मुदोत्तालैः, कैश्चिद् वैतालिकैरिव । वीज्यमानोऽञ्चलैः कैश्चिच्चञ्चलैश्चामरैरिव ।। ६३६ ॥ भालस्थाञ्जलिभिः कैश्चिद्, वन्द्यमानोऽशुमानिव । अर्घ्यमाणफलपुष्पः, कैश्चिदारामिकैरिव ।। ६३७ ।। प्रणम्यमानः स्वकुलदेवतेव च कैश्चन । कैश्चित् प्रदीयमानाशीर्गोत्रवृद्धाजनैरिव ।। ६३८ ॥ प्रविवेश विशामीशश्चतुर्दारांपुरी स ताम् । पूर्वद्वारेण समवसरणं नाभिभूरिव ।। ६३९ ।। ।। चतुर्भिः कलापकम्।। प्रत्येकमपि मञ्चेषु, सङ्गीतानि तदाऽभवन् । युगपल्लमघटिकातूर्यनादा इवोच्चकैः ॥६४० ॥ पुरो गच्छति भूपाले, राजमार्गापणस्थिताः । मुदिताः पौरसुदृशो, लाजान् दृश इवाऽक्षिपन् ।। ६४१ ।। पौरप्रक्षिप्तकुसुमदामभिः पिहितोऽभितः । सोऽभूत् पुष्परथप्रायो, राजकुञ्जरकुञ्जरः ।। ६४२ ।। शनैः शनै राजपथे, प्रययौ जगतीपतिः । उत्कण्ठितानां लोकानामकुण्ठोत्कण्ठया पुनः ॥६४३ ।। नाऽजीगणन् गजभयमभ्यर्णेऽभ्येत्य भूभुजे । फलादीन्यार्पयन् पौराः, प्रमोदो बलवान् खलु ॥ ६४४ ॥ १ व्याजतः । २ तेजसा इन्द्रः । ३ मृष्टव्रीहीन् ।
भरतस्य प्रवेशोत्सवः ।
||२२५ ॥