________________
त्रिषष्टि
शलाका
पुरुषचरिते
।। २२४ ।।
प्रमोदमानपूर्देव्या, हसितैरिव चामरैः । दिवो मण्डनभङ्गीभिरिव चित्रकचर्मभिः ।। ६१८ ।। कौतुकादागतैर्धिष्ण्यैरिव काञ्चनदर्पणैः । खेचराणां हस्तेशाटैरिव वासोभिरद्भुतैः ।। ६१९ ।। विचित्रमणिमालाभिर्मेखलाभिरिव श्रियाम् । उत्तम्भितेषु स्तम्भेषु, हट्टशोभां व्यधुर्जनाः ।। ६२० ।। ॥ त्रिभिर्विशेषकम् ॥ प्रक्वणत्किङ्किणीमालाः, पताकाश्च बबन्धिरे । दर्शयन्त्यः शरत्कालं, कलनिर्ह्रादसारसम् ।। ६२१ ।। प्रत्यट्टं प्रतिगेहं च, यक्षकर्दमगोमयैः । लिप्तेष्वदादङ्गणेषु, मौक्तिकस्वस्तिकान् जनः ।। ६२२ ।। अपूर्यन्ताऽगैरुक्षोदैर्धूपघट्यः पदे पदे । उच्चैर्धूमायमाना द्यामपि धूपायितुं ध्रुवम् ।। ६२३ ।। प्रवेष्टुकामो नगरीमारुरोह शुभे क्षणे । गजं मेघमिवोद्गर्जं, चक्री भूमघवाहनः ।। ६२४ ॥ एकेनैवाऽऽतपत्रेण, कर्पूरक्षोदपाण्डुना । हिमांशुमण्डलेनेव, गगनं परिशोभयन् ।। ६२५ ।। सङ्क्षिप्य स्वं वपुर्भक्त्या, चामरद्वितयच्छलात् । अभ्युपेत्य समं गङ्गासिन्धुभ्यामिव सेवितः ।। ६२६ ।। वासोभिः शोभितः शुभ्रैः, सुसूक्ष्मैर्मसृणैर्घनैः । स्फाटिकाद्रिशिलासारं, त्वचयित्वेव निर्मितैः ।। ६२७ ।। प्रेम्णा रत्नप्रभाभूम्या, निजसारैरिवाऽर्पितैः । विचित्ररत्नालङ्कारैः, सर्वाङ्गीणमलङ्कृतः ।। ६२८ ।। नृपैराबद्धमाणिक्यमुकुटैः परिवारितः । फणामणिधरैर्नागकुमारैरिव नागराट् ।। ६२९ ।। वैतालिकैर्जयजयारावपूर्वं प्रमोदिभिः । कीर्त्यमानाद्भुतगुणः, सुत्रामा चारणैरिव ।। ६३० ।।
१ नक्षत्रैः । २ हस्तपटैः । ३ अगरुचूर्णैः । ४ राजा । ५ कोमलैः । ६ खण्डयित्वा । ७ सर्वाङ्गेषु । ८ इन्द्रः ।
प्रथमं पर्व चतुर्थः
सर्गः
श्रीऋषभ
स्वामि
चरितम् ।
भरतस्य प्रवेशोत्सवः ।
।। २२४ ।।