________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व चतुर्थः
सर्गः श्रीऋषभस्वामिचरितम् ।
।। २२३ ॥
वृक्षाधिरुढान् प्लवगानिव ग्रामीणदारकान् । सहर्षं पश्यतः पश्यन्, जनकस्तनयानिव ।। ६०४ ।। धान्यैर्धनैर्जीवधनैः, सर्वदा निरुपद्रवैः । ग्रामाणां सम्पदं पश्यन्, निजनीतिलताफलम् ॥६०५ ।। आपंगाः पङ्किलीकुर्वन्, सरांसि परिशोषयन् । वापीकूपांश्च कुर्वाणः, पातालशुषिरोपमान् ।।६०६ ।। मलयानिलवल्लोकसुखं गच्छन् शनैः शनैः । विनीतां प्रापदुर्वीशो, दुर्विनीतारिशासनः ।। ६०७ ।।
॥एकादशभिः कुलकम् ।। अविदुरे विनीतायाः, स्कन्धावारं न्यवेशयत् । तस्याः सहोदरमिवाऽतिथीभूतं महीपतिः ।।६०८ ॥ कृत्वा मनसि तां राजधानी राजशिरोमणिः । चकार निरुपसर्गप्रत्ययं सोऽष्टमं तपः ।।६०९ ।। निष्क्रम्याऽष्टमभक्तान्ते, पौषधागारतो नृपः । पारणं विदधे दिव्यरसवत्या नृपैः सह ।।६१० ॥ अयोध्यायां त्वबध्यन्त, तोरणानि पदे पदे । दिगन्तरागतश्रीणां, क्रीडादोला इवोच्चकैः ।। ६११ ॥ चक्रुः पौराः पथि पथि, सेकं कुङ्कमवारिभिः । गन्धाम्बुवृष्टिभिरिव, स्वर्गिणो जिनजन्मनि ।। ६१२ ॥ मञ्चान् विरचयामासुः स्वर्णस्तम्भैः पुरीसदः । अनेकीभूय निधिभिः, पुरोभूयागतैरिव ॥ ६१३ ॥ अभानुभयतो मार्ग, मञ्चास्तेऽन्योऽन्यसम्मुखाः । स्वर्णाद्रय इव कुरुष्वभितो ह्रदपञ्चकम् ॥ ६१४ ।। प्रतिमञ्चमजायन्त, रत्नभाजनतोरणाः । प्राचीनबर्हिकोदण्डश्रेणिशोभाभिभाविनः ।। ६१५ ॥ समं वीणामृदङ्गादिवादकैर्गायनीजनः । विमानेष्विव गन्धर्वानीकं मञ्चेष्ववास्थित ।। ६१६ ॥ मुक्तावचूला मश्चेषु, बभुरुल्लोचलम्बिनः । कान्तिस्तबकिताकाशा, वासागारेष्विव श्रियः ।। ६१७ ॥ १ नदीः । २ पातालच्छिद्रोपमान् । ३ सेचनम् । ४ इन्द्रधनुःश्रेणिशोभातिरस्कारिणः ।।
भरतस्य प्रवेशोत्सवः ।
॥ २२३ ॥