SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ।। २२२ ।। राज्ञां कुलश्रीभिरिवोढाभिर्दुहितृभिः क्रमात् । द्वात्रिंशता सहस्रैश्चाऽसूर्यम्पश्याभिरन्वितः ।। ५९२ ।। तावद्भिर्जनपदभूस्त्रीसहस्रैश्च सुन्दरैः । अप्सरोभिरिवाऽत्यन्तचारुभिः परिशोभितः ।। ५९३ ।। श्रितो द्वात्रिंशता राजसहस्रैः पदिकैरिव । चतुरशीत्येभलक्षैर्विन्ध्याद्रिरिव राजितः ।। ५९४ ।। अश्वै रथैश्च तावद्भिर्विश्वतोऽप्याहृतैरिव । भटानां षण्णवत्या च, कोटिभिश्छन्नभूतलः ॥। ५९५ ।। आद्यप्रयाणदिवसादतिक्रान्तेषु सत्स्वथ । षष्टौ वर्षसहस्रेषु, चक्रमार्गानुगोऽचलत् ।। ५९६ ।। ॥ अष्टभिः कुलकम् ॥ सैन्योद्धूतरजःपूरपरिस्पर्शमलीमसान् । खेचरानपि कुवार्णः, कृतभूलुठनानिव ।। ५९७ ।। व्यन्तरान् भवनपतींश्चाऽपि भूमध्यवासिनः । सैन्यभारान्महीभेदशङ्कोत्पादेन भापयन् ।। ५९८ ॥ गोकुले गोकुले गोपसुंदृशां विकसदृशाम् । गृह्णन् हैयङ्गेचीनार्घमनर्घ्यमिव भक्तितः ।। ५९९ ।। कुम्भिकुम्भस्थलोद्भूतमौक्तिकप्रभृतीनि च । प्राभृतानि किरातानामाददानो वने वने ।। ६०० ॥ पर्वते पर्वते भूपैः, पार्वतीयैः पुरो धृतम् । रत्नस्वर्णखनीसारं, स्वीकुर्वन्नुर्वनेकशः ।। ६०१ ।। ग्रामे ग्रामे ग्रामवृद्धान्, सोत्कण्ठान् बान्धवानिव । अनुगृह्णन् सप्रसादमात्तानात्तैरुपायनैः ।। ६०२ ।। निजाज्ञायष्टिनोग्रेण, विष्वक् प्रसृमंरानपि । ग्रामेभ्यः सैनिकान् रक्षन्, क्षेत्रेभ्यो गा इवाऽभितः ।। ६०३ ॥ १ ॥ गोपालस्त्रीणाम् । २ नवनीतम् । ३ महत् । ४ गृहीतागृहीतैः । ५ प्रसृतान् । प्रथमं पर्व चतुर्थः सर्गः श्रीऋषभ स्वामि चरितम् । दिग्विजयं कृत्वा भरतस्य विनीताया मागमनम् । ।। २२२ ।।
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy