________________
त्रिषष्टिशलाका
पुरुषचरिते
।। २२१ ।।
एकेन्द्रियाणि सप्ताऽपि, सप्त पञ्चेन्द्रियाणि च । चक्रिरत्नानि जायन्ते, सर्वरत्नाभिधे निधौ । ५७७ ।। वस्त्राणां सर्वभक्तीनां, शुद्धानां रागिणामपि । सञ्जायते समुत्पत्तिर्महापद्मान्महानिधेः ।। ५७८ ॥ भविष्यद्भूतयोर्ज्ञानं, वत्सरांस्त्रीन् संतोऽपि च । कृष्यादीनि च कर्माणि, शिल्पान्यपि च कालतः ।। ५७९ ।। प्रवालरजतस्वर्णशिलामुक्ताफलायसाम् । तथा लोहाद्याकराणां, महाकाले समुद्भवः ।। ५८० ।। योधानामायुधानां च, सन्नाहानां च सम्पदः । युद्धनीतिरशेषाऽपि दण्डनीतिश्च माणवात् ॥ ५८१ ॥ चतुर्धा काव्यनिष्पत्तिर्नाट्यनाटकयोर्विधिः । तूर्याणामखिलानां चोत्पत्तिः शङ्खान्महानिधेः ।। ५८२ ॥ ऊचुस्ते च वयं गङ्गामुखमागधवासिनः । आगतास्त्वां महाभाग !, भवद्भाग्यैर्वशीकृताः ।। ५८३ ॥ यथाकाममविश्रान्तमुपभुङ्क्ष्व प्रयच्छ च । अपि क्षीयेत पाथोऽब्धौ न तु क्षीयामहे वयम् ।। ५८४ ।। वशं यातेषु निधिषु नृपो व्यधित पारणम् । अष्टाहिकोत्सवं तेषां निर्विकारश्चकार च ॥ ५८५ ।। नृपाज्ञया सुषेणोऽपि गङ्गादक्षिणनिष्कुटम् । पल्लीवल्लीलया सर्वं साधयित्वा समाययौ ।। ५८६ ।। तत्राऽस्थाल्लीलयाऽऽक्रान्तपूर्वापरपयोनिधिः । द्वितीय इव वैताढ्यो, बहुकालमिलापतिः ।। ५८७ ।। अन्येद्युः साधिताशेषभरतं भरतेशितुः । अयोध्याभिमुखं चक्रमचालीद् गगनस्थितम् ॥ ५८८ ॥ भरतोऽपि कृतस्नानो, विधाय बलिकर्म च । नेपथ्यभृत् कृतप्रायश्चित्तकौतुकमङ्गलः ।। ५८९ ॥ कुञ्जराधिपतिस्कन्धमारुढो देवराडिव । नवभिर्निधिभिः पुष्टकोशः कल्पद्रुमैरिव ।। ५९० ।। निरन्तरं महारत्नैश्चतुर्दशभिरावृतः । सुमङ्गलायाः स्वप्नानां पृथग्भूतैः फलैरिव ।। ५९१ ।।
१ वर्त्तमानस्य । २ जलम् ।
प्रथमं पर्व
चतुर्थः
सर्गः
श्रीऋषभस्वामि
चरितम् ।
भरतस्य
दिग्विजयः ।
नव निधयः ।
।। २२१ ।।