________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व चतुर्थः
सर्गः
॥२२०॥
श्रीऋषभस्वामिचरितम् ।
आरुढः करिणः स्कन्धं, कुम्भदेशे च दक्षिणे । मणिरत्नं निवेश्योच्चस्तां विवेश गुहां नृपः ।। ५६२ ॥ अन्वीयमानः सैन्येन, भरतस्तिमिरच्छिदे । काकिण्या पूर्ववत् तत्र, मण्डलान्यालिखन् ययौ ।। ५६३ ॥ निःसरन्त्यौ गुहाप्रत्यग्भित्तेः प्राग्भित्तिमध्यतः । भूत्वा मिलन्त्यौ जाह्नव्या, सख्या सख्याविवाऽभितः ॥ ५६४ ।। ते उन्मना-निमग्नाख्ये, निम्नगे प्राप भूपतिः । प्राग्वच्च पंचया सद्यो, ललचे सह सेनया ॥ ५६५ ॥ तद्हादक्षिणद्वारं, स्वयमुज्जघटे क्षणात् । सैन्यशल्यातुरेणेव, वैताठ्येनाऽद्रिणेरितम् ।। ५६६ ॥ निर्ययौ तद्गुहामध्यात्, केसरीव नरेश्वरः । स्कन्धावारं च निदधे, गाङ्गे रोधसि पश्चिमे ।। ५६७ ॥ उद्दिश्य च निधीन् पृथ्वीपतिश्चक्रेऽष्टमं तपः । प्राक्तपोऽर्जितलब्धीनामागमे मार्गदर्शकम् ।। ५६८ ।। अष्टमान्ते तमभ्येयुर्निधयो नव विश्रुताः । सदा यक्षसहस्रेण, ते प्रत्येकमधिष्ठिताः ।। ५६९ ॥ नैसर्पः पाण्डुकश्चाऽथ, पिङ्गलः सर्वरत्नकः । महापद्मः कालमहाकालौ माणवशङ्खकौ ॥ ५७० ।।
तेऽष्टचक्रप्रतिष्ठाना, उत्सेधे चाऽष्टयोजनाः । नवयोजनविस्तीर्णा, दैर्घ्य द्वादशयोजनाः ॥५७१ ॥ | वैडूर्यमणिकपाटस्थगितवदनाः समाः । काञ्चना रत्नसम्पूर्णाश्चक्रचन्द्रार्कलाञ्छनाः ॥ ५७२ ॥
तेषामेवाऽभिधानैस्तु, तदधिष्ठायकाः सुराः । पल्योपमायुषो नागकुमारास्तन्निवासिनः ॥ ५७३ ।। स्कन्धावारपुरग्रामाकरद्रोणमुखौकसाम् । मडम्बपत्तनानां च, नैसर्पाद् विनिवेशनम् ।। ५७४ ॥ मानोन्मानप्रमाणानां, सर्वस्व गणितस्य च । धान्यानामथ बीजाना, सम्भवः पाण्डुकान्निधेः ।। ५७५ ॥ नराणामथ नारीणां, हस्तिनां वाजिनामपि । सर्वोऽप्याभरणविधिर्निधेर्भवति पिङ्गलात् ।। ५७६ ।। १ मार्गेण । २ प्रेरितम् । ३ आकरः खनिः, जल-स्थलपथाभ्यां यत्र भाण्डाद्यागच्छति तद् द्रोणमुखम् ।
| भरतस्य दिग्विजयः । नव निधयः ।
॥२२०॥