________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व चतुर्थः सर्गः श्रीऋषभस्वामिचरितम् ।
।।२१९ ।।
भुजानो विविधान् भोगांस्तत्र राजा तया सह । एकाहमिव वर्षाणां, सहस्रं सोऽत्यवाहयत् ।। ५४७ ।। कथञ्चिदपि सम्बोध्य, सोऽनुज्ञाप्य च जाह्नवीम् । खण्डप्रपाताभिमुखं, चचाल प्रबलैर्बलैः ।। ५४८ ।। गुहां खण्डप्रपाताख्यामखण्डितपराक्रमः । ततः स्थानान्नृपः प्राप, केसरीव वनाद् वनम् ।। ५४९ ।। अथ खण्डप्रपाताया, गुहायाः सोऽपि दूरतः । निदेशयामास बलं, बलेनाऽतिमहाबलः ।। ५५० ।। तत्र देवं नाट्यमालं, कृत्वा मनसि भूपतिः । चक्रेऽष्टमतपोऽचालीत्, तस्य देवस्य चाऽऽसनम् ।। ५५१ ॥ स ज्ञात्वाऽवधिना तत्राऽऽयातं भरतचक्रिणम् । उपायनैरुत्तमर्णधमर्ण इवाऽऽययौ ।। ५५२ ।।। षट्खण्डक्ष्माभूषणस्य, स देवो भूरिभक्तिमाक् । भूषणान्यर्पयामास, सेवां च प्रत्यपद्यत ।। ५५३ ।। कृतनाट्यं नटमिव, नाट्यमालसुरं ततः । प्रसादपूर्वमुर्वीशो, विससर्ज विवेकयुक् ।। ५५४ ।। पारणं विदधे भूपस्तस्य चाऽष्टाह्निकोत्सवम् । सुषेणं चाऽऽदिशत् खण्डप्रपातोद्धाट्यतामिति ।। ५५५ ।। नाट्यमालं चमूनाथः, कृत्वा मनसि मन्त्रवत् । चक्रेऽष्टममग्रहीच्च, पौषधं पौषधौकसि ।। ५५६ ॥ निष्क्रम्य पौषधागारादष्टमान्ते चमूपतिः । प्रतिष्ठायामिवाऽऽचार्यवर्यो बलिविधि व्यघात् ।। ५५७ ॥ ततश्च विहितप्रायश्चित्तकौतुकमङ्गलः । महा_स्वल्पनेपथ्यभृद् धूपदहनं दधत् ।। ५५८ ॥ खण्डप्रपातां स ययावालोकेऽपि ननाम च । आनर्च तत्कपाटे च, लिलेख चाऽष्टमङ्गलीम् ।। ५५९ ।। पदान्यपेत्य सप्ताऽथ, कपाटोद्धाटनाय सः । उपाददे दण्डरत्नं, काञ्चनीमिव कुञ्चिकाम् ॥ ५६० ॥ तेनाऽऽहतं च दण्डेन, तत्कपाटद्वयं क्षणात् । व्यघटिष्टांऽशुमद्रश्मिस्पृष्टपङ्कजकोशवत् ।। ५६१ ॥ १ एकदिनमिव ।
भरतस्य दिग्विजयः ।
॥२१९ ॥