________________
त्रिषष्टिशलाकापुरुषचारेते
| प्रथम पर्व | चतुर्थः सर्गः श्रीऋषभस्वामिचरितम् ।
।।२१८॥
नाना सुभद्रां स्त्रीरत्नं, स स्वां दुहितरं ततः । राज्ञे विश्राणयामास, स्थिरीभूतामिव श्रियम् ।। ५३४ ॥
॥विंशत्या कुलकम् ॥ महामूल्यानि रत्नानि, भूभुजे नमिरप्यदात् । गृहागते स्वामिनि हि, किमदेयं महात्मनाम् ? ॥ ५३५ ॥ अथ राज्ञा विसृष्टौ तौ, राज्यान्यारोप्य सूनुषु । विरक्तावृषभेशानिमूले जगृहतुव्रतम् ।। ५३६ ।। ततोऽपि चलितवतश्चक्ररत्नस्य पृष्ठतः । गच्छन् सोऽमन्दतेजस्कः, प्राप मन्दाकिनीतटम् ।। ५३७ ।। नात्यासन्ने नातिदूरे, जाह्नवीसदनस्य सः । सैन्यान्यावासयामास वसुमत्येकवासवः ।। ५३८ ।। गङ्गां सिन्धुवदुत्तीर्य, नृपादेशाच्चमूपतिः । सुषेणः साधयामास, गाङ्गमुत्तरनिष्कुटम् ।। ५३९ ॥ ततः सोऽष्टमभक्तेन, गङ्गादेवीमसाधयत् । उपचारः समर्थानां. सद्यो भवति सिद्धये ।। ५४० ॥ राज्ञे विश्राणयामास, रत्नसिंहासनद्वयम् । अष्टोत्तरं रत्नकुम्भसहस्रं च सरिद्वरा ॥ ५४१ ।। भरतं रुपलावण्यकिङ्करीकृतमन्मथम् । तत्राऽवलोक्य गङ्गाऽपि, प्राप क्षोभमयी दशाम् ।। ५४२ ।। विराजमाना सर्वाङ्ग, मुक्तामयविभूषणैः । वदनेन्दोरनुगतैस्तारैस्तारागणैरिव ।। ५४३ ।। वस्त्राणि कदलीगर्भत्वक्सगर्माणि बिभ्रती । स्वप्रवाहपयांसीव, तद्रूपपरिणामतः ॥ ५४४ ।। रोमाञ्चकञ्चकोदञ्चत्कुचस्फुटितकञ्चका । स्वयंवरस्रजमिव, क्षिपन्तीं धवलां दृशम् ।। ५४५ ॥ प्रेमगद्गदया वाचा, गाढमभ्यर्थ्य पार्थिवम् । रिरंसमाना साऽनैषीद्, देवी रैतनिकेतनम् ।। ५४६ ॥
॥ चतुर्भिः कलापकम् ।। १पृथ्व्यामेक इन्द्रः । २ गङ्गा ।३ सम्भोगस्थानम् ।
भरतस्य दिग्विजयः।
॥२१८॥