SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व चतुर्थः सर्गः श्रीऋषभस्वामिचरितम् । ॥२१७ ॥ जयन्ती केशपाशेन, कलापान् प्रचलाकिनाम् । पराभवन्तीं मालेन, पक्षमध्यक्षपाकरम् ।। ५२० ॥ रतीप्रीत्योरिव क्रीडादीर्घिके दधतीं दृशौ । नासां च भाललावण्यजलधारामिवाऽऽयताम् ॥ ५२१ ॥ कपोलाभ्यां नवस्वर्णादर्शाभ्यामिव शोभिताम् । दोलाभ्यामिव कर्णाभ्यां, लग्नाभ्यामंसदेशयोः ॥५२२॥ बिभ्राणामधरौ युग्मजातबिम्बविडम्बिनौ । दन्तांश्च वज्रशकलश्रेणिशोभाभिभावकान् ॥५२३ ॥ बिभ्राणां मध्यमिव च, त्रिरेखं कण्ठकन्दलम् । भुजे च नलिनीनालसरले बिसकोमले ॥ ५२४ ।। कुचौ दधानां कामस्य, कल्याणकलसाविव । स्तनापहृतबाहल्यमिव मध्यं च पेलवम् ॥ ५२५ ॥ वहन्तीं सरिदावर्त्तनाभि नाभिमण्डलम् । रोमाली च नाभिवापीतीरदूर्वावलीमिव ॥ ५२६ ।। नितम्बेन विशालेन, तल्पेनेव मनोभुवः । दोलासुवर्णस्तम्भाम्यामिवोरुभ्यां च राजिताम् ।। ५२७ ॥ जवाभ्यामेणिकाजचे, अधरीकुर्वतीतराम् । पाणिभ्यामिव पादाम्यां, पङ्कजानि निकुर्वतीम् ॥ ५२८ ॥ पाणिपादाङ्गुलिदलैवल्ली पल्लवितामिव । नखै रत्नै चोरमानै, रत्नाचलतटीमिव ।। ५२९ ।। शोभमानां च वासोभिर्विशालस्वच्छकोमलैः । चलन्मूदुमरुज्जातोत्कलिकाभिरिवाऽऽपगाम् ।। ५३० ।। मनोरमैरवयवैः, स्वच्छकान्तितरङ्गितैः । भूषयन्ती भूषणानि, रत्नस्वर्णमयान्यपि ।। ५३१ ।। पृष्ठतश्छत्रधारिण्या, छाययेव निषेविताम् । सञ्चरच्चामराभ्यां च, हंसाभ्यामिव पद्मिनीम् ॥ ५३२ ॥ अप्सरोभिः श्रियमिवाऽऽपगाभिर्जाह्नवीमिव । सहस्रशो वयस्याभिः, परितः परिवारिताम् ॥ ५३३ ॥ १ मयूराणाम् । २ अष्टमीचन्द्रम् । ३ मृगीजर्छ । ४ तिरस्कुर्वतीम् । ५ चलन्मृदुपवनजातलहरीभिः । RABASAHARASHASHRSHASHTRA भरतस्य दिग्विजयः । ॥२१७॥
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy