________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथम पर्व चतुर्थः
सर्गः श्रीऋषभस्वामिचरितम् ।
॥२१६ ।।
कुर्वन् मणिविमाना, बहुसूर्यमयीमिव । प्रज्वलद्भिः प्रहरणैस्तडिन्मालामयीमिव ।। ५०६ ॥ उद्दामदुन्दुभिध्वानैर्मेघघोषमयीमिव । विद्याधरबलं व्योमन्यपश्यद् भरतस्ततः ।। ५०७ ॥ दण्डार्थिन् ! दण्डमस्मत्तस्त्वं गृह्णासीति भाषिणौ । आहवायाह्नयेतां तौ, विद्यादृप्तौ महीपतिम्।। ५०८ ॥ अथ ताभ्यां ससैन्याभ्यां, प्रत्येकं युगपच्च सः । युयुधे विविधैर्युद्धैर्युद्धाा यज्जयश्रियः ।। ५०९ ॥ युधा द्वादशवार्षिक्या, विद्याधरपती जितौ । प्राञ्जली प्रणिपत्यैवं, भरताधीशमूचतुः ॥ ५१०॥ रवेरुपरि किं तेजो ?, वायोरुपरि को जैवी ? | मोक्षस्योपरि किं सौख्यं ?, कश्च शूरस्तवोपरि ? ॥५११ ॥ ऋषभो भगवान् साक्षादद्य दृष्टस्त्वमार्षभे! । अज्ञानाद् योधितोऽस्माभिः, कुलस्वामिन् ! सहस्व तत् ।। ५१२ ॥ ऋषभस्वामिनो मृत्यौ, पुरा वामधुना तु ते । सेवावृत्तिन लज्जायै. स्वामिवत् स्वामिनन्दने ।। ५१३ ।। याम्योदग्भरतार्द्धान्तर्वर्तिवैताठ्यपार्श्वयोः । दुर्गपालाविवेहाऽऽवां, स्थास्यावः शासनेन ते ॥ ५१४ ।। इत्यस्य वचनस्याऽन्ते, विनम्य विनमिर्नृपः । विदधे दित्समानोऽपि, यियाचिषुरिवाऽअलिम् ॥५१५ ॥ समचतुरस्राकारां, सूत्रं दत्त्वेव निर्मिताम् । त्रैलोक्यवर्तिमाणिक्यतेजःपुञ्जमयीमिव ।। ५१६ ।। यौवनेन नखैः केशः, श्रीमद्भिः सर्वदा स्थितैः । विराजमानामत्यन्तं, कृतज्ञैरिव सेवकैः ॥५१७ ॥ समियोपशमनी, बल्यां दिव्यामिवौषधीम् । यथाकामीनशीतोष्णसंस्पर्शा दिव्यवारिवत् ।। ५१८ ॥ त्रिषु श्यामां त्रिषु श्वेतां, त्रिषु ताम्रां त्रिपुंन्नताम् । त्रिंगम्भीरां त्रिविस्तीर्णा, त्र्योयतां त्रिशीयसीम् ॥५१९ ॥ १ विद्योन्मत्तौ । २ वेगवान् । ३ सर्वरोगोपशमनीम् । ४ बलहेतुकाम् । ५ यथेच्छशीतोष्णसंस्पर्शाम् । ६ केशादिषु । ७ देहादिषु । ८ करतलादिषु । ९ स्तनादिषु । १० नाभ्यादिषु । ११ नितम्बादिषु । १२ लोचनादिषु । १३ उदरादिषु ।
भरतस्य दिग्विजयः ।
।।२१६ ॥