________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथम पर्व चतुर्थः सर्गः श्रीऋषभस्वामि
॥२१५ ॥
चरितम् ।
आरोहक इवेभस्य, वैताढ्यस्याऽस्य भूभृतः । पार्थे कृतपदोऽस्त्येष, भूपतिर्भुजगर्वितः ।। ४९२ ।। तदेष जितकासी सन्नस्मत्तोऽपि जिघृक्षति । मन्ये दण्डं तदुद्दण्डं, चिक्षेपाऽस्मासु सायकम् ॥ ४९३ ।। तावन्योऽन्यमुदित्वैवमुत्थाय समरोन्मुखौ । प्रतस्थाते गिरिप्रस्थं, स्थगयन्तौ निजैर्बलैः ।। ४९४ ।। सत्र धुसदबलानीव, सौधर्मेशाननाथयोः । आज्ञयाऽथ तयोर्विद्याधरानीकान्युपाययुः ॥ ४९५ ।। तेषामुच्चैः किलिकिलारावैर्वेताढ्यपर्वतः । जहासेव जगर्जेव, पुस्फोटेव समन्ततः ।। ४९६ ।। विद्याधरेन्द्रभृतकाः, कलधौतमयान् पृथून् । दुन्दुभीन् वादयामासुर्वैताव्यस्येव कन्दरान् ।। ४९७ ।। उदग्दक्षिणयोः श्रेण्योभूमिग्रामपुराधिपाः । विचित्ररत्नाभरणा, रत्नाकरसुता इव ।। ४९८ ।। अस्खलद्गतयो व्योग्नि, सौपर्णेया इवाऽचलन् । समं नमिविनमिभ्यां, तन्मूर्त्तय इवाऽपराः ॥ ४९९ ।। एयुर्विचित्रमाणिक्यप्रभोद्भासितदिङ्मुखैः । विमानैः केऽप्यसंलक्ष्यभेदा वैमानिकामरैः ।। ५०० ।। गर्जद्भिः शीकरासारवर्षिभिर्गन्धसिन्धुरैः । पुष्करावर्त्तकाम्भोदसोदरैरपरेऽचलन् । ५०१ ।। आच्छिन्नैरिन्दुमार्तण्डप्रभृतिज्योतिषामिव । सुवर्णरत्नरचितैः, स्यन्दनैः केचिदापतन् ॥ ५०२ ॥ गगने वल्गु वल्गद्भिर्वेगातिशयशालिभिः । केऽपि प्रतस्थिरे वायुकुमारैरिव वाजिभिः ।। ५०३ ।। विहस्तहस्ताः शस्त्रौधैर्वज्रसन्नाहधारिणः । प्लवमानाः प्लवङ्गवत्, केचिदेयुः पदातयः ॥ ५०४ ।। तावथोत्तीर्य वैताढ्याद्, विद्याधरबलावृतौ । युयुत्समानौ सन्नद्धौ, भरतेश्वरमीयतुः ।। ५०५ ॥ १ कृतस्थानः । २ जयाभिमानी । ३ देवसैन्यानि इव । ४ व्याकुलहस्ताः ।
भरतस्य दिग्विजयः ।
||२१५ ॥