Book Title: Tithinirnay Author(s): Ramchandra Jha Publisher: Chaukhamba Vidyabhavan View full book textPage 6
________________ अथ तिथिनिर्णयः महामहोपाध्याय-श्रीराजनाथ-( रजे )-मिश्रविरचितः । अथ सामान्यतिथिपरिभाषा नत्वा दुण्ढि गिरं विष्णुं निबन्धन गिरिशं गुरून् । क्रियते राजनाथेन तिथिनिर्णयसंग्रहः ॥ तत्र तिथिरखण्डकालविशेषरूपा । विशेषत्वांशे चन्द्रमण्डलकलारम्भाद्यनुगुणक्रियाप्रचयत्वरूपादेरुपलक्षणतयैवोपयोगः । अत एव "आश्विनाऽपरपक्षे तु श्राद्धं देयं दिने दिने” इत्यत्र दिनपदस्य तिथिपरत्वमते वीप्सालभ्यतिथि. निरूपितव्यापकत्वं श्राद्धे न व्याहन्यते । अन्यथा तादृशक्रियाप्रचयस्य तिथित्वे सर्वास क्रियासु श्राद्धाऽसंभवेन श्राद्धमव्यापकमेव स्यात् । अखण्डरूपत्वे तु तत्तत्तिथौ योग्यकाले सकृच्छाद्धाचरणेऽपि तत्तत्तिथिनिरूपितव्यापकत्वस्य व्याघातो न श्राद्धे । न च चतुर्दश्यां श्राद्धाऽनाचरणेनैव तव्याघात इति वाच्यम् । तत्रापि केषाश्चिन्मते श्राद्धविधानात् शस्त्रादिहतश्राद्धेन विशेषविहितेन सामान्यस्य बाधाद् वा “कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम्" इति मानवनिषेधवचनैकवाक्यतया तदितरतिथिपरत्वेन व्यापकत्वाक्षतेश्च | तदाह विष्णुपुराणे-"कालस्वरूपं रूपं तद्विष्णोमैत्रेय वर्तते।" विष्णुधर्मोत्तरे-"अनादिनिधनः कालो रुद्रः संकर्षणः स्मृतः। कलनात् सर्वभूतानां स कालः परिकीर्तितः ॥" १. नस्वयं [ प्रतिहारषष्ठी (छठ )-जीवत्पुत्रकाष्टमी (जितिया) आदि ] 'व्रतनिर्णयः' यतः पुस्तकान्ते स्वयमेवोक्तं ग्रन्थका मिश्रमहोदयेन-"व्रतनिर्णयः, शुद्धिनिर्णयः, तीर्थनिर्णयश्च यथावकाशं प्रकाशमेष्यन्ति" इति-सम्पादकः । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42