Book Title: Tithinirnay
Author(s): Ramchandra Jha
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
तिथिनिर्णयः इति स्मृस्याऽर्द्धरात्रिके भाद्रकृष्णाष्टमीरोहिणीयोग एव पूजादिकं तिथिभान्ते च पारणमिति रोहिण्यष्टमीव्रतं द्वतीयम् ।।२॥
अथ भाद्रपदे मासि कृष्णाष्टम्यां कलौ युगे । अष्टाविंशतिमे जातः कृष्णोऽसौ देवकीसुतः ।। तस्मात् स तत्र संपूज्यो यशोदा देवकी तथा । मुहूर्तेनापि संयुक्ता सम्पूर्णा साष्टमी भवेत् ।। किं पुनर्नवमीयुक्ता कुलकोटिविमुक्तीदा । तृप्त्यर्थं देवकीसूनोर्जयन्तीसम्भवं व्रतम् ।।
कर्त्तव्यं मुक्तिकामेन तथा भक्तजनैरपि । अकुर्वनिरयं याति यावदिन्द्राश्चतुर्दश ॥ इति । अत्रापि रोहिण्यादियोगे फलाधिक्यमाहस्कन्दपुराणे-उदये चाष्टमी किञ्चिन्नवमी सकला यदि । भवेद्वै बुधसंयुक्ता प्राजापत्यर्भसंयुता ।
____ अपि वर्षशतेनापि लभ्यते वा न वा विभो।। तथा-जयन्तीबुधवारेण सोमवारेण वा पुनः । लभ्यते दैवयोगेन तामुपोष्य महाफलम् ।। सप्तम्यविद्धालाभे सप्तमीविद्धानिषेधमाह
अग्निपुराणे-वर्जनीया प्रयत्नेन सप्तमीसंयुताऽष्टमी। सऋक्षापि न कर्तव्या सप्तम्या सहिता यदि ।। पद्मपुराणे-पञ्चगव्यं यथा शुद्धं न ग्राह्यं मद्यदूषितम् । रविविद्धा तथा त्याज्या रोहिण्यापि युताष्टमी॥
तथा-पुत्रान् हन्ति पशून् हन्ति हन्ति राज्यं सराजकम् । हन्ति जातानजातांश्च सप्तमीसहिताष्टमी ।। अस्मिश्च व्रते पूजायाः प्राधान्येन श्रवणाद् उदयगामिनी पूवोहव्यापिन्यष्टम्येवापेक्ष्यते रोहि यार्थः । 'रात्रौ प्रजागरः कार्यः' इत्यादिना रात्रिकृत्यत्वेन जागरमात्रस्यैवाभिधानात पूजाधारत्वेन रात्रेरश्रुतावौत्सर्गिकस्य पूर्वाहकृत्यत्वस्यानपवादादिदमेव सकलशिष्टमैथिलाचारपरिगृहीतं कृष्णजन्माष्टमीव्रतमिति तृतीयम् ॥ ३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42