Book Title: Tithinirnay
Author(s): Ramchandra Jha
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 38
________________ तिथिनिर्णयः निषेधाच्च । उभयत्र प्रदोषाव्याप्ती, परत्र प्रदोषे प्रतिपदि कार्यम् । “पूर्वत्र चतुर्दश्यां भूताहे ये” इत्यादिनिषेधश्रवणात् , पार्वणोत्तरत्वानुरोधाच्च । न च "नन्दायां दर्शनं रक्षे"त्याद्युत्तरत्रापि निषेधश्रवणात् त्यज्यतां तादृशस्थले पितृविसर्जनमिति वाच्यम् ,"दर्शश्राद्धं भवेद् दर्शेऽपराहे प्रतिपद्यपि । प्रदीपोल्कादिकं कायं तत्प्रदोषे न दुष्यति ॥" इति मिथिलेशशुभंकरधृतस्मृत्या प्रतिप्रसूतत्वावित्यास्तां तावत् । अथ पूर्णिमा-द्वैधः । सा च स्नानदानादावौदयिकी ग्राह्या, तत्रैव तयोविधानात् । कार्यान्तरे चतुर्दशीयुता ग्राह्या | "चतुर्दश्याथपूर्णिमेति । युग्मवाक्यात् । फाल्गुनीपूर्णिमा तु होलिकादाहे प्रदोषव्यापिनी ग्राह्या | यदाह सायाह्ने होलिकां कुर्यात् पूर्वाहे क्रीडनङ्गवाम् । दीपं दद्यात् प्रदोषे तु एष धर्मः सनातनः ।। अत्र सायाह्नशब्देन संकेतितस्य दिनचरममुहूर्तत्रयस्य न ग्रहणं दिवातनहोलिकादीपननिषेधस्य वक्ष्यमाणत्वात् । यदि प्रदोषे भद्रादुष्टैव पूर्णा लभ्यते तदा तां विहाय निशीथादावपि भद्राविधुरपूर्णायां दीपयेत् यदाह श्रावणी दुर्गनवमी दूर्वा चैव हुताशनी । पूर्वविद्वैव कर्तव्या भद्रायां न तु दीपयेत् ॥ पूर्णिमापूर्वार्द्ध भद्रा तदाहभविष्यपुराणे-पूर्णापूर्वदलं यावत् तावज्जीवति वत्सरः। मृते परदले नक्तं दाहस्तस्य विधीयते ॥ भद्रायां दीपिता होली राज्यभकं करोति च । नगरस्य च नैवेष्टा तस्मात्तां परिवर्जयेत ।। स्मृत्यन्तरेपि-दिनार्धात् परतोपि स्यात् फाल्गुनी पूर्णिमा यदि । रात्रौ भद्रावसाने तु होलिका दीप्यते तदा ॥ सूर्यास्तसमयमारभ्य प्रवर्तमानायां परदिने च प्रदोषमस्पृशन्त्यां पूर्णायां व्यवस्थानाहुर्दाक्षिणात्याः । मुखादि पुच्छान्तं भद्राङ्गविभागं कृत्वा पूर्वस्यां निशि चतुर्थयामे भद्रापुच्छे होलिका दीपनीयेति । पठन्ति च-"भद्रामुखं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42