Book Title: Tithinirnay
Author(s): Ramchandra Jha
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
तिथिनिर्णयः
३४
परित्यज्ये "त्यादिवचनं नाडयस्तु पञ्चवदनं गलकं तथैके इत्यादि रत्नमालीयश्च । “भद्रापुच्छे प्रदीपयेदिति च । अन्ये तु भविष्योत्तरे – सार्धयामत्रयं चेत् स्यात् द्वितीय दिवसे यदि । प्रतिपदवर्धमाना तु तदा सा होलिका स्मृता ॥ तथा असत्यामपि पूर्णायां वृद्धित्वे होलिकार्चनम् । क्रियमाणं च नन्दायां शान्तिर्भवति नो क्षयः ॥ पूर्वरात्रे भद्रावियुक्तपूर्णाया अलाभे वर्धमानायां च तिथौ नन्दायामपि होलिकां दीपयेदित्याहुः ।
केचित्तु - "वरं विषं भुङ्क्ष्व मा चाण्डालगृहे” इति वत् भद्रायामत्यन्तनिषेधे तात्पर्यं न तु नन्दायां दीपने इत्याहुः । पठन्ति च - वह्नौ वह्नि परित्यजेत् होलिकादाहे प्रतिपदं वर्जयेदिति तस्यार्थः ।
,
विद्याविनोदे-नन्दायां नरकं घोरं भद्रायां देशनाशनम् | दुर्भिक्षं च चतुर्दश्यां करोत्येव हुताशनः ॥
नारद:- प्रतिपद्भूतभद्रासु याचिंता होलिका दिवा । संवत्सरे च तद्राष्ट्रं पुरं दहति साद्भुतम् ॥ परे तु पूर्वनिशि भद्रावियुक्त पूर्णिमालाभे प्रतिपदि निषेधे वचनानां तात्पर्यमित्याहुः । श्रावणीपूर्णिमोपाकर्मादावौदयिकी ग्राह्या । रक्षिकाबन्धने भद्रापरित्यागश्च कार्यः पूर्वोक्तयुक्तेः । भाद्रीपूर्णिमा ऋषितर्पणादावौदयिकी ग्राह्या
काश्यमावास्या पूर्वविद्धा तथाष्टमी । पूर्णिमा परविद्धा तु नोपोष्यं तिथिपञ्चकम् ॥
इत्यादिनिषेधस्तु सावित्रीत्रतपिषय इति । आश्विनी पूर्णिमा तु स्नानदानादावौदयिकी ग्राह्या । लक्ष्मीपूजायान्तु सति सम्भवे निशीथप्रदोषोभयव्यापिनी ग्राह्या तदलाभे प्रदोषमात्रव्यापिनी ग्राह्या यदाह
ब्राह्मे—दिवा तत्र न भोक्तव्यं मनुष्यैश्च विवेकिभिः । स्त्रीबालवृद्धमूर्खेश्व भोक्तव्यं पूजितैः सुरैः ॥ प्रदोषे पूजयेल्लक्ष्मी मिन्द्रमैरावतस्थिताम् । निशीथे वरदा लक्ष्मीः कोजागर्तीति भाषिणी ॥ तस्मै वित्तं प्रयक्षामि अक्षैः क्रीडां करोति यः ॥ इति शम् |
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 37 38 39 40 41 42