Book Title: Tithinirnay
Author(s): Ramchandra Jha
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
तिथिनिर्णयः
३१ तदतिरिक्तदिने यदि पूर्वदिने प्रदोषव्यापिनी उत्तरदिने च प्रदोषनिशीथोभयव्यापिनी तदोत्तरैव ग्राह्या, तथाहि
कुलसर्वस्वे-महानिशादिने देवि प्रति पञ्च यदा भवेत् । कालीकैवल्ययोगोयं तदिने कालिकार्चनम् ।। कालीत्युपलक्षणम् । त्रिपुरसुन्दरी-तारयोरप्यत्र महोत्सवः कार्यः । यदाह
मत्स्यसके-पजयेत परया भक्त्या रात्रेमध्यमयामयोः । काली तारां सन्दरी च विशेषात प्राणवल्लभे ।।
कार्तिकामावास्यानिशीथे चतुर्दण्डात्मके प्रथमखण्डे श्रीविद्याप्रादुर्भावः । मध्यभागे कालीप्रादुर्भावः । तृतीयभागे ताराप्रादुर्भावः इत्यागमाकरप्रन्थात् प्राणतोषिण्यादिनिबन्धाच्चानुसन्धेय इति ।
___ अथ महालये पार्वणश्राद्धमाहात्म्यम् येयं दीपान्विता राजन ख्याता पश्चदशी भुवि । तस्यां देयं नचेहत्तं पितृणान्तु महालये ॥ तथा-कन्यां गते च सवितरि पितृराजानुशासनात् । तावत्प्रेतपुरी शून्या याववृश्चिकदर्शनम् ॥
__ ततो वृश्चिक आयाते निराशाः पितरो गताः । पुनः स्वभवनं यान्ति शापं दत्वातिदारुणम् ॥
इत्यादिवचनैरकृतापरपक्षपार्वणे नात्र पार्वणस्यावश्यकर्तव्यतया अमावास्यात्वेनापि पार्षणश्राद्धाहत या श्रादकालो निर्णीयते
अथ श्राद्धकाल पूर्वाह्न मातृकं श्राद्धमपराहे तु पैतृकम् | एकोद्दिष्टं तु मध्याह्ने प्रातवृद्धिनिमित्तकम् ।। अत्राभ्युदयिकश्राद्धस्य प्रातर्विधानेपि "सूर्ये चैवाचिरोदिते” इति निषेधसामान्येन मुहूर्त्तद्वयानन्तरं प्रातरेवारम्भणीयता सङ्गवात्मके पूर्वाल मातृकमन्वष्टकाश्राद्धं मातृनवम्यादौ कार्यम् । एकोद्दिष्टप्राद्धं कुतुपादारभ्य रौहिणं Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 34 35 36 37 38 39 40 41 42