Book Title: Tithinirnay
Author(s): Ramchandra Jha
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 35
________________ तिथिनिर्णयः पूज्या चाब्जधरा सदैव च तिथिः, सैवाहनि प्राप्यते । कार्या भूतविमिश्रिता जगुरिति व्यासादिगर्गादयः ।। उत्तरदिने सूर्यास्तात् परैकदण्डव्यापिन्यप्यमावास्या ग्राह्या, तत्रारधा पूजा प्रतिपद्यपि सम्पादनीया यदि. चोत्तरत्र दिवैव दर्शः प्राप्यते समाप्यते । पूर्वदिने च प्रदोषे लभ्यते तदा चतुर्दशीविद्धापि ग्राह्येत्यर्थः । ज्योतिःशास्त्रे-दण्डैकरजनीयोगे दर्शः स्याच्च परेऽहनि । तदा विहाय पूर्वेयुः परेऽह्नि सुखरात्रिका ॥ ___ अमावास्या यदा रात्रौ दिवाभागे चतुर्दशी । पूजनीया तदा लक्ष्नीविज्ञेया सुखरात्रिका ।। इति वचनद्वयमुभयत्र प्रमाणं वेदितव्यम् । अत्रैव निशीथे श्यामापूजा यदाहकामाख्यातन्त्रे-शरत्काले च देवेशि दीपयात्रादिने तथा | अमावास्यां समासाद्य मध्यरात्रौ विचक्षणः ॥ मृन्मयों पुत्तलीं कृत्वा दीपादिभिरलं कृताम् । बलि नानाविधं दद्याद्वाद्यभाण्डसमन्वितम् ।। नृत्यं गीतं कौतुकानि यावत्सूर्योदयं चरेत् । प्रातःकाले शुद्धतोये स्थापयेदविनाशिनीम् ॥ अत्र मध्यरात्रश्रवणात निशीथव्यापिनी ग्राह्या । भविष्येऽपि-प्रतिसंवत्सरं कुर्यात् नालिकाया महोत्सवम् । कार्तिके तु विशेषेण.अमावास्या निशार्धके । तस्यां सम्पूजयेद् देवीं भोगमोक्षप्रदायिनीम् ।। कुलसर्वस्वे-उभयदिने निशीथव्याप्तौ प्रदोषव्याप्तिनियामिका | प्रदोषव्यापिनी यत्र महानिशि च सा भवेत् ।। तदेव कालिका पूज्या दक्षिणा मोक्षदायिनी ।। यदि चोभयदिने तथा तदा चतुर्दशीयुता ग्राह्या तथाहिआगमे-अर्धरात्रे महेशानि अमावास्या यदा भवेत् | चतुर्दशीयुता ग्राह्या चामुण्डापूजने सदा ॥ तथा-यत्रोभयदिने भूतयुक्तकुह्वां महानिशि | इमां यात्रां कारयित्वा चक्रवत्ती नृपो भवेत् ।। शनिभौमदिनानुरोधात् प्रदोषव्यापिन्यपि निशीथव्यापिनी ग्राह्या । तथाहिचतुर्दशी प्रदोषे तु अमावास्या महानिशि | शनि भौमदिने देवि निशायां सर्वथा यजेत् ।। For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42