Book Title: Tithinirnay
Author(s): Ramchandra Jha
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 33
________________ तिथिनिर्णयः नव-मध्याह्न भोज्यवेलायां समुत्तीर्य सरित्तटे । ददर्श शीला सा स्त्रीणां समूह रक्तवाससाम् ।। चतुर्दश्यामर्चयन्तं भक्त्या देवं पृथक् पृथक् ।। इति भविष्योत्तरीयमध्याह्नव्यापिनी तिथिह्येति वाच्यम् । “पूर्वाह्नो वै देवानामि"ति श्रुत्यादिभिः पूर्वाहे देवकृत्यविधानात् । विध्यसमभिव्याहतार्थवादेन तद्वाधायोगात् । किंच 'मध्याह्ने' इति नाधिकरणसप्तमी, किन्तु सति सप्तमी, तथा च मध्याह्ने आगामिनि सति ततः प्रागेव स्नानसन्ध्यावन्दनाद्याह्निकं कर्म कतु कौण्डिन्यः शीला च गोरथादुत्तीर्य पूर्वाह्न स्त्रीणां समूहं सा ददशेत्यन्वयस्यापि सम्भवादिति न किञ्चिदेतत् । कृष्णा तु पूर्वयुतैव । “कृष्णपक्षेऽष्टमी चैवे"त्याधुक्तस्मृतेः । नक्तव्रते तु तद्वथापिन्येव पाह्या “कर्मणो यस्य यः कालः” इत्याधुक्तस्मृतेः । उभयदिने नक्तव्याप्तौ पूर्वस्मिन्नेव कपालाधिकरणन्यायादिति समयप्रदीपः । “कामविद्धो हरः पूज्यः" इति वचनसंवादादिति जीर्णोद्धारः। स्कान्दे-माघमासस्य शेषे या प्रथमे फाल्गुनस्य च । कृष्णा चतुर्दशी सा तु शिवरात्रिः प्रकीर्तिता॥ अत्रैक्रस्यास्तिथेः ।शुक्लादिमासरीत्या माघीयत्वम् | कृष्णादिमासरीत्या फाल्गुनीयत्वमप्यविरुद्धम् । सन्देह. निरासार्थमित्थमुक्तिः । हेमाद्रितस्मृतिः-प्रदोषव्यापिनी ग्राह्या शिवरात्रिचतुर्दशी । इति । वायुपुराणे-त्रयोदश्यस्तगे सूर्ये चतसृष्वपि नाडिषु । भूतविद्धा तु या तत्र शिवरात्रिव्रतं चरेत् ।। ईशानसंहितायाम्-माघे कृष्णचतुर्दश्यामादिदेवो महानिशि । शिवलिङ्गतयोदभूतः कोटिसूर्यसमप्रभः ।। तत्कालव्यापिनी ग्राह्या शिवरात्रिव्रते तिथिः । अर्धरात्रादधश्चोर्ध्व युक्ता यत्र चतुर्दशी ।। व्याप्ता सा दृश्यते यस्यां तस्यां कुर्याद् व्रतं नरः ।। एवं च यस्मिन् दिने प्रदोषनिशीथोभयव्यापिनी चतुर्दशी तस्मिन् दिने व्रतम् । उभयव्याप्त्यनुरोधात् । यदा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42