Book Title: Tithinirnay
Author(s): Ramchandra Jha
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
तिथिनिर्णयः
२६ तथा-द्वादश्यां शुक्लपक्षे तु नभस्ये श्रवणा यदि । उपोप्यैकादशी तत्र द्वादशीमप्युपोषयेत् ।। ब्रह्माण्डपुराणे-द्वादश्यास्तु दिने भाद्रे हृषीकेशर्मसंयुते । उपवासद्वयं कुर्याद्विष्णुप्रीणनतत्परः ।। .तथा-द्वादश्येकादशी सौम्यं श्रवणं च चतुष्टयम् । देवदुन्दुभियोगोऽयं शतसत्रफलप्रदः ।। वराहपुराणे-एकादशीमुपोध्यैव द्वादशीमप्युपोषयेत् । न चात्र विधिलोपः स्यादुभयोर्दैवतं हरिः॥
__ पारणान्तं व्रतं ज्ञेयं समाप्तौ द्विजभोजनम् । असमाप्ते व्रते पूर्व कुर्यान्नेव व्रतान्तरम् ।। यत्र चैकादश्यां द्वादशीक्षयस्तत्रैकेनोपवासेनोभयसिद्धिरिति बोध्यम् । अशक्तं प्रत्याहबौधायनः-एवमेकादशी भुक्त्वा द्वादशी समुपोषयेत् । उपवासद्वयं कर्तुं न शक्नोति नरो यदि ।।
कार्मुके च यदा जीवे पुष्पे सौभाग्यसंयुते । फाल्गुनस्य सिते पक्षे द्वादशी रविवासरे ।।
गोविन्दद्वादशी नाम महापातकनाशिनी । तथा-फाल्गुने शुक्लपक्षस्य पुष्या द्वादशी यदि | गोविन्दद्वादशी नाम महापातकनाशिनी ॥ इति ।
(१३) अथ त्रयोदशी-द्वैधः सा च शुक्ला पूर्वयुता ग्राह्या । तथाहिबौधायनः-पञ्चमी सप्तमी चैव दशमी च त्रयोदशी । प्रतिपन्नवमी चैव कर्तव्या सम्मुखी तिथिः ॥ तथा-कृष्णाष्टमी बृहत्तल्पा सावित्री वटपत्रकी। कामत्रयोदशी रम्भा उपोष्याः पूर्वसंयुताः॥ तथा शुक्ला त्रयोदशी रम्भा नोपोष्याः परसंयुताः ।। कृष्णपक्षे तु परैव तथाहिआपस्तम्यः-षष्ठयष्टमी त्वमावास्या कृष्णपक्षे त्रयोदशी । एताः परयता ग्राह्याः पराः पूर्वेण संयुताः॥ For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42