Book Title: Tithinirnay
Author(s): Ramchandra Jha
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
तिथिनिर्णयः एकादशी दशाविद्धा गान्धार्या समुपोषिता | तस्याः पुत्रशतं नष्टं तस्मात्ता परिवर्जयेत् ।।
इति निन्दार्थवादानुरोधाच्च । किं चैकादशीमुपवसेदित्यत्राव्यभिचरितैकादश्यन्तिमभागयुताहोरात्रपरत्वस्यैव(१)युक्तत्वाद् द्वादशीयुतैवोपोष्या । अत एव व्यहे वर्द्धमानैकादश्युपोषणं शास्त्रार्थः । न च पूर्वदिनेप्युदयगामित्वाद् दशम्यविद्धत्वाच्च कपालाधिकरणन्यायादुपोषणमास्तामुत्तरदिने तिथिमलत्वेनाग्राह्यत्वमस्त्विति वाच्यम् , 'सर्व तिथिमलं त्याज्यमन्यत्र हरिवासराद्' इति स्मृतेः। .
षष्टिदण्डात्मिकायाश्च तिथेनिष्क्रमणं परे । अकर्मण्यं तिथिमलं विद्यादेकादशी विना ।।
इति स्मृतेश्च, पूर्वोक्तयुक्त्या च परैवोपोप्या वाचनिकव्यवस्थायां न्यायविरोधस्याकिञ्चित्करत्वात् । एकादशीक्षयस्थले तु केचित् । पूर्वोक्तनिन्दार्थवादानुमितं दशमीविद्धामेकादशी नोपवसेदिति श्रुतिवाक्यम् । तस्य च लाघवात् पर्युदासन्यायेन विधिवाक्येन सहैकवाक्यतया दशमीविद्धातिरिक्तैकादश्युपवासस्य शास्त्रार्थत्वात् । क्षयस्थले चैका.
दयस्पृष्टत्वादुत्तरदिने चालाभाद् व्रतलोप एव कृतसंकल्पेनाप्योदनादिकं भोक्तव्यमिति काचित्कशिष्टाचारानुप्राणितं प्रतिजानन्ति |
भविष्ये-एकादशी दशायुक्तां वर्द्धमाने विवर्जयेत् । पक्षहानौ स्थिते सोमे लङ्घयेद् दशमीयुताम् ।। लवयेदित्यस्य त्यजेदित्यर्थ इति च व्याचख्युः ।
परे तु-वृद्धौ परा तु कर्तव्या क्षये पूर्वान्तु कारयेत्' इति स्मृत्यन्तरैकवाक्यतानुरोधाल्लंघयेदित्यस्योपवसेदित्यर्थस्यैवावगमात्।
(1) उपवासस्याहोरात्राभोजनरूपतयोपज्यसपदश्रुत्या अहोरात्राक्षेपस्तथा च प्रधानोदयकालनिरूपितव्यभिचाराभाव. स्तिव्यन्तिमभागयुताहोरात्रे एवेति भावः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42